सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाञ्चोद्भासिता ५८३ जीवानामविद्यादिसमस्तोपाधिनाशे चिदानन्दब्रह्मस्वरूप. स्वापत्तिर्मुक्तिरित्यन्ये । न । जीवानां दुःखादिवत् ज्ञानात् सुखाच्च मेदेन प्रतीयमानत्वात् (१) । अन्यथा दुःखरूपत्वस्यापि प्रसङ्गात् । दुःखमहमिति नानुभव इति चेत् । नाहं सुखमिति तुल्यम् । स कलदुःखरहितत्वं सुखत्वमिति चेत् | न | अशेषसुखरहितत्वं दुः- खत्वमित्यत्रापि तुल्यत्वात् । वस्तूनां परप्रकाश्यत्वनियमेन ज्ञातुः स्वप्रकाशनविरोधात् । अन्यथा दुःखादेरपि स्वप्रकाशतापत्तिः । चिद्रूपोऽहपित्यनुभवोऽस्तीति चेत् । न | ज्ञानाधारस्य चिच्छ- ब्देनाभिधानात् । · न्यायलीलावतीकण्ठाभरणम् भास्करीयं मतमाह जीवानामिति । परमात्मनि जीवात्मलयो मुक्तिः, लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पञ्चमहा भूतानि सुक्ष्ममात्रया संभूयावस्थितानि, स्वस्व दुःखावच्छेदकानि इत्यर्थः । जीवानां ज्ञानसुखात्मकरणमनुपपन्नमित्याह जीवानामिति । सकलदुःखरहितत्वादेव तत्र सुखत्वोपचार इत्याह सकलेति । किञ्च ज्ञानात्मकत्वमपि नात्मन इत्याह वस्तूनामिति । चिच्छन्देनेति । चेतयत. इति चिदिति च व्युत्पत्ति बलादित्यर्थः । न्यायलीलावतीप्रकाशः त्रिदण्डिमतमाह जीवानामिति । आनन्दमयपरमात्मनि ज्ञानात्मलयो मोक्षः, लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पश्च. महाभूतानि सूक्ष्ममात्रयाप्यवस्थितानि सुखदुःखावच्छेदकानीत्यर्थः । जीवानामिति । अहं जाने अहं सुखीत्याद्यनुभवादित्यर्थः । वस्तुनामिति । मोक्षदशायां स्वातिरिक्तज्ञानस्य कारणबाधेन बाधात् स्वप्रकाश्यत्वं जीवानां वाच्यं, तच्च न, यद्वस्तु तत्परप्रकाश्यमिति व्याप्तेरित्यर्थः । वस्तुतो विवक्षितविवेकेन शरीरादिनाशः पुरुषसाध्यः, स चापुरुषार्थ एव । न चोपाधिनाशे सत्यौपाधिकजीवनाशो लयः, ब्रह्मणो नित्यतया तदभिन्नस्य नाशानुपपतेरिति भावः । (१) प्रतितिरिति प्रा० पु० पाठः ।