न्यायलीलावती अद्वैतानुभव विरोधित्वमिति चेत् । न । द्वैतानुभवविरोधित्वेन त स्यैव किं नाविद्यत्वम् । अयत्नसिद्धत्वमिति चेत् । न । यत्नसि- द्धस्यापि शोकातुरतनय साक्षात्कारस्याविद्यात्वात् । अयत्नसिद्ध स्य च तनया भावसाक्षात्कारस्य विद्यात्वदर्शनात् । विचारासहत्वम- विद्यात्वमिति चेत् । न । अनुभवेन विरोधिना विचारस्यैव कृ- शानोरनुष्णत्वानुमानवदाभासीकृतत्वात् । ५८२ न्यायलीलावतीकण्ठाभरणम् तुल्यमिति । तर्हि ग्रावाणः प्लवन्त इत्यपि श्रुतिरध्यक्षेण न बाध्येतेत्यर्थः । अस्येति । भेदानुभवस्येत्यर्थः । तस्यैवेति । श्रुतिजन्यानुभवस्येत्यर्थः । द्वैतानुभवस्यायत्नसिद्धत्वादविद्यात्वं श्रुतिजन्यानुभवस्य तु तत्तदुप. निषत्परिशीलनपरिश्रमजन्मनो यत्नसिद्धत्वेन विद्यात्वमित्याह अय स्नेति । यत्वायनसिद्धत्वं विद्यात्वाविद्यात्वे प्रति न तन्त्रमित्याह यान- सिद्धस्थापीति । घटपटौ भिन्नाविति घटपटभेदमात्रधिया तत्रैवाद्वैतश्रु. तिरपसारणीया क्रमेण तु तदितरसकलपदार्थाद्वैतं बोधयन्त्या श्रु. त्यापि धीर्बाधनीयेति विचारासहत्वमित्यर्थः । घटपटौ भिन्नाविति प्रत्यक्षे जाग्रति सर्वमभिन्नमित्येव धीः श्रुत्या जनयितुं न शक्येत्याह अनुभवेनेति । न्यायलीलावतीप्रकाशः स्वादिस्यर्थः । तस्या अद्वैतश्रुतेरित्यर्थः । तस्यैवेति । श्रुतिवाक्यजानुभ- वस्येत्यर्थः । विरोधित्वस्याविशेषादिति भावः । शोकातुरेति । यत्तन. यशोकातुरोऽसौ तत्तनय साक्षात्कारः स्वप्नादावविद्येत्यर्थः । वस्तुतस्तु स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन मुक्तसंसारिणोरविशेषप्रसङ्गः पुरुषप्रयत्नं विना तस्य सत्वादपुरुषार्थत्वं च । न चाविद्यानिवृत्तिः प्रय- तसाध्या, तस्याः स्वतोऽपुरुषार्थत्वादिति भावः । न्यायलीलावतीप्रकाशविवृतिः व्याचष्टे श्रुतिवाक्यजानुभवस्येति । तस्या अपुरुषार्थत्वादिति । यद्यप्यविद्यानिवृ तिविशिष्टस्यानन्दस्वरूपात्मनः पुरुषार्थत्वं, तत्र च विशेषणं समा- दाय कृतिसाध्यत्वं विशेष्याङ्गमादाय निरूपाधीच्छाविषयत्वमवि कदमेव, तथाध्ये कावच्छेदेनोभयधर्म सस्वं पुरुषार्थताप्रयोजकमन्यथा
पृष्ठम्:न्यायलीलावती.djvu/६५९
दिखावट