सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोभ्दासिता


अपि च भूतळव्यवहारविलक्षणो नास्तीति व्यवहारो भूतलव्यतिरिक्तव्यवहर्तव्यप्रकाशनिबन्धनः, कलशव्यवहारवत् । न च सघटभूतलविलक्षणं (भूतलविलक्षणं ?) वा प्रमेयं नावभासते । अन्यथा एकस्यैव सामान्यस्य व्यञ्जक भेदेन वस्तुस्वरूपस्यैव वाऽभिन्नस्य चित्राकारजगव्यवहारगोचरत्वमनिवार्यमिति घटे च घटाभावसंसर्गनिषेधो घट एव नतु प्रकृते अतिप्रसक्तेः । प्रागभावप्रध्वंसयोरन्योन्य संसर्गितानिषेधे स्वरूपमेवाभावः सम्बन्धिसम्बन्धयोरिव । संसर्गिताविधौ नैक्यमित्यत्र तु अन्योन्याभावा-


न्यायलीलावतीकण्टाभरणम्

पेयमित्याह अपिचेति । विलक्षणानुभव एवाभावे प्रमाणमित्याह नचेति । ननु भूतलमात्रादेव विलक्षणव्यवहारद्वयमस्तु को दोष इत्यत आह अन्यथेति । वस्तुस्वरूपस्यैव वा घटादेरित्यर्थः । ननु यथा घटे घटाभावाभावब्यवहारो घटस्वरूपाधीनस्तथा भूतलस्वरूपाधीनो घटाभावव्यवहारोऽपि स्यादित्यत आह घटे चेति । नहि घटो घटाभावात्मको घटात्मकश्चेति द्विरूपः सम्भवति भूतलन्तु सघटमघटञ्चेति द्विरूपमतस्तत्स्वरूपेण कथमभावधीरित्यर्थः । प्रकृते-भूतले । अतिप्रसत्त्केरिति । सघटेनापि तदभावव्यवहारापत्तेरित्यर्थः । प्रागभावप्रध्वंसयोरिति । तत्राप्यन्योन्य संसर्गाभावव्यवहारस्यानतिप्रसक्तान्योन्याभावसाध्यत्वादित्यर्थः । सम्बन्धीति । घटे रूपसमवाय इत्यत्र स्वरूपमेव सम्बन्ध-

न्यायलीलावतीप्रकाशः

र्थः । उक्त एवार्थे प्रयोगमाह अपि चेति । भूतलव्यवहारविलक्षणव्यवहारत्वादिति हेतुः स्फुटत्वान्नोक्तः । न चेति । इत भूतले घटो नास्तीत्यन्त्र भूतलविलक्षणघटाभावानुभवः सर्वसिद्ध इत्यर्थः । अन्यथेति । यथा एकस्यैव भूतलस्य सहकारिभेदमासाद्य विलक्षणव्यवहारहेतुत्वं तथैकस्यैव सत्तादेः सामान्यस्य विलक्षणव्यञ्जकवशाद्विलक्षणव्यव्रहार: स्यादित्यर्थ: । घटे चेति । घटान्योन्याभावाभावस्य घटात्सुकत्वादित्यर्थः । नत्विति । भूतलस्वरूपमेव घटनिषेधो न पुनः सघटभूतलस्वामि तस्वादित्यर्थः । संबन्धीति । घटरूपयोः समवाय इत्यम