व्यवहारस्य सघटभूतलबुद्धावपि सत्त्वात् । असति सघटभूतळबुद्धिवे स्वरूपभेदव्यवहार इति चेत् । न । अभावस्वीकारात् । असति व्यावर्तकधर्मे व्यावृत्ति [१] व्यवहारानुपपत्तिः । सर्वत्र व्यावृत्तव्यवहारस्य तत्प्रतिबन्धोपलब्धेः । अत इयं कि भूतलबुद्धित्वेन व्यावर्तते, अथ घटाविषयत्वेन । नाद्यः । तस्यामपि भुतळबुद्धित्वाबाधात् । न द्वितीयः | अभावस्वीकारात् । सघटभूतलबुद्धिमात्रापेक्षया रूपभेद इति चेत् । न साधारणधर्माबभासे तन्मात्रापेक्षया स्वरूपभेदव्यवहार स्यैवाभावात् [२] । न हि गौगोस्वरूपा [३] ट्र्यावर्तते गोत्वेन । ततो भवन्नयं विमिन्नव्यवहारोऽसाधारण घटा [४]न्य विषयत्वप्रतीतिनिबन्धनः ।
न्यायलीलावतीकण्ठाभरणम्
असतीति । यत्र बुद्धौ सघटभूतलबुद्धित्वं नास्ति साऽभावव्यवहारं करोतीत्यर्थः । अभावेति । नास्तीति कण्ठत एव वाऽभावाभ्युपगमादित्यर्थः । स्वरूपभेदोपि व्यावर्तकधर्माधीनः स चाभाव एवेत्याह असतीति । इयमिति । अभावव्यवहारहेतुभूता बुद्धिरित्यर्थः । अभावेति । घटाभावविषयत्वमत्र नञर्थस्याभावादित्यर्थः । असाधारणेति । असाधारणं यदूघटादिविषयत्वं धर्मो बुद्धौ तन्निबन्धन इत्यर्थः । विलक्षणव्यवहारस्य वैलक्षण्याधीनत्वादवश्यं घटवत्घटाभावव्यवहारयोर्वेलक्षण्यमभ्यु-
न्यायलीलावतीप्रकाशः
ताहशी भूतलबुद्धि रभावव्यवहारहेतुरित्याह असतीति । व्यावृत्तबुद्धेव्यवर्तकधर्माधीनत्वं प्रसाध्य व्यावृत्तव्यवहारस्य तत्साधयति असति व्यावर्तक इति । अभावे व्यावृत्तव्यवहारः स्वरूपनिबन्धन एव, अन्यथाऽनवस्थापत्तेः, अत्र तु बाघकाभावात्सोऽसाधारणधर्मजन्यः, स चासाधारणधर्मोऽभाव इत्यर्थः । अत इति । अतः सघटभूतलबुद्धेरियं निर्धटभूतलबुद्धिरित्यर्थः । तस्यामपीति । सघटबुद्धावपीत्य-