सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१९
न्यायलीलावतीकण्ठाभरण-सविषृतिप्रकाशोद्भासिता


 रोपित हेतुसमुप्थत्वात् बाधितविषयत्वाच्च कोटिद्वयोपनिपाते


न्यायलीलावतीकण्ठाभरणम्

कारोपभाग इत्यर्थः । आरोपितेति । आहार्य्यारोपविषयो व्याप्यधीसत्त्वादित्यर्थः । ननु यद्ययं निर्वह्निः तन्तुना निर्ज्जल: स्यान्नह्युपहितोऽर्थः सत्य एव तथा च कथमवयविनेत्यत आह -- कोटिद्वयेति । एकको-

न्यायलीलावतीप्रकाशः

हि तर्के व्याप्तिज्ञानस्य हेतुत्वं ब्रूमः किन्तु व्यभिचारशङ्कानिरासे स च क्वचित् तर्कात् क्वचिद् व्याघातात् शङ्कैव नावतरति । तथाहि - यदि वह्नीतराजन्यो धूमो वह्नयजन्यः स्यादजन्यः स्यादित्यत्र तर्के कारणं विनैव कार्यं स्यादवह्वेरेव भविष्यतीति शङ्कया भवितव्यम् । उभयथापि स्वक्रियाघातः । यदि हि कारणं विना कार्य्योत्पत्तिं शङ्केत कथं परप्रतिपस्यर्थ वचने प्रवर्त्तत ? यदिचाऽवहरेव धूमोत्पत्ति शङ्केत कथं नियमेन धूमार्थं वह्निमुपादत्त इति भावः । यद्यप्यनौपाधिकत्वग्रहो व्याप्तिग्राहक इत्युक्तं प्राक् तथाप्ययोग्योपाध्यभावग्रहो न योम्यानुपलम्भादिति तद्ग्रहार्थमपि तर्कोपक्षणीय इत्यविरोधः, तस्या

न्यायलीलावतीप्रकाशविवृतिः

धकस्यापि जिज्ञासानिवृत्तिद्वारा उपयोगः । कामिनीजिज्ञासास्थलेविरोधिविषयकजिज्ञासात्वेन प्रतिबन्धकत्वकल्पनात् | साध्याभावजिशासाया अपि प्रतिवन्धकत्वात् । न च परामर्षादेव शङ्कानिवृत्तिरिति मूलनिवृत्तौ जिज्ञासाया अपि निवृत्तेः कि तर्फेणेति वाच्यम् । स्वारसिकशङ्कानिवृत्तावपि विरोधिप्रमाणसद्भावानुबन्धनशङ्कायाः सुलभतया जिशासाया अपि सुलभत्वात् । अतएवोक्तमाचार्येण---- विरोधिप्रमाणसदसद्भावावधारणव्यग्रतया मुहूर्त्तमनुमितौ विलम्बत इति गुणकिरणावल्यां कुसुमाञ्जलावण्युक्तम् । तेन हि प्रवर्त्तमानेन जिझांसा विच्छिद्यते विच्छिन्न प्रतिपक्षे छश्च निरालम्वं लिङ्गमधितिष्ठतीत्यादि तस्मात्प्रयोजकत्वं तर्कस्येति । कारणं विनेति । इयमेव शङ्का मूलीभूतव्यातिग्रहपरिपन्थिनी । अपरा तु पराभिमतविपर्यय पर्यवसानौपयिकपक्षविशेषपरिपन्थित्वनाशङ्किता वह्निमुपाददते | उपादानकारणीभूताइन्वयव्यतिरेकानुविधायित्वज्ञानं तत्रेत्यर्थः । यद्यपीति । यद्यप्यनौपाधिकत्वं लिङ्गतया ग्राहकं प्रागुक्तं प्रत्यक्षे तु व्यभिचारज्ञानविर हादिरेव जनकस्तथापि तुभ्यतु दुर्जन इति न्यायेनेदमुक्तम् । नियत-