वा लिङ्गस्यावान्तरव्यापारः स्यात्तदनुपकारकं नेदमनुमानाङ्गम् ।
अत्रेोच्यते । अनुमानानुकूलप्रतिबन्धनिश्रयोत्पत्तौ व्यभिचारशङ्कानिवृत्तिद्वारेणास्योपयोगात् । स चायमाहार्यारोपरूपः । आ-
न्यायलीलावतीकण्ठाभरणम्
लिङ्गमेव कारणं तज्ज्ञानं व्यापार इत्यर्थः । अनुमानेति । व्यभिचारशङ्काविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकं सा च तर्केणापनीयत इत्यर्थः । व्याप्तिग्रहे तर्कांपेक्षया तर्कमूलव्याप्तिग्रहेऽपि तदपेक्षा स्यादित्यनास्था । क्वचित्तदनपेक्षायां व्यभिचारात्तर्कस्य कारणतैव न स्यादित्यदेश्यं शङ्कगनिवृत्तावेव तदुपयोगात् । क्वचिद् व्याघातात् शङ्कैव नावतरति । न हि धूमार्थ वह्निमुपाददानो वह्नि विनापि धूमः स्यादिति शङ्कते। यद्यप्यनौपाधिकत्वग्रहो व्याप्तिग्राहक इत्युक्तं तथापि तत्रापि तर्क एव उपाय इति भावः । तर्कस्याविद्यात्वं व्युत्पादयन्नेव पूर्वोक्त्तधर्म्मलक्षणेऽसदर्थानुमितावतिव्याप्तिं परिहरति - स चायमिति । व्याप-
न्यायलीलावतीप्रकाशः
अनुमानानुकूलेति । व्यभिचारशङ्काविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकम्, सा च तर्केणानिष्टमुपदर्शयता निवर्त्त्यत इति व्याप्ति हे तर्कस्योपयोग इत्यर्थः । ननु तर्कमूलभूतव्याप्तिज्ञानं तर्क विनैव तर्कान्तराद्वा । आद्ये व्यभिचारान्न तर्कस्तत्र हेतुः, अन्त्येऽनवस्था । मैवम् । न
न्याय लीलावतीप्रकाश विवृतिः
त्वानुपपत्त्यैव कल्पनीयमिति भावः । वस्तुतो व्याप्तिस्मृतिरेव परामर्षव्यापारिकाकरणमिति व्यापारानुरोधेन तर्ककारणतेतिभावः । व्यभिचारशङ्काविरहेति । यद्यप्यव्यभिचाररूपव्याप्तिग्रहे सा शङ्काग्राह्यसंशयपर्यवसनसत्वेना प्रतिबन्धिका, अन्यथा विषयपरिशोधकस्यापि शङ्कानिवृत्तिफल मिति किन्नोक्तम् । किञ्च तथा सति शान्देऽपि योग्यतासंशयः प्रतिबन्धकः स्यात् तथाप्यन्वयव्यतिरेकाभ्यां व्याप्तिज्ञाने व्यभिचारशङ्काग्राह्य संशयपर्यवसन्ना तदपर्थवसन्ना चान्योन्याभावगर्भव्याप्ति गहेऽत्यन्ताभावादिगर्भाप्रतिबन्धि कैवेति ला तकीपनेया शाब्दे तु न संशयः कथमपि प्रतिबन्धक इत्यपि फलंबलादेवावसीयते । प्रत्यक्षे तु संशये सवि विना विशेषदर्शनं न ज्ञानमिति तत्र विशेषदर्शनापेक्षेति फलानुरोधादेव निश्चीयते । वस्तुतो विषयपरिशो-