यविति । हे अनन्त ! त्रैलोक्यमयं रूपं दधदपि ततो निर्गतो बहिः शुद्धज्ञानात्मा[१][२] च वर्तसे त्वमिति यत्, सोऽपि तावत् तव खलु महिमा | किमन्यद् न किञ्चिदपि। अपिच, ते स्तोको माग: पादकल्प एवाखिलभुवनतया ब्रह्माण्डरूपेण दृश्यते । त्र्यंशकल्पं प्रायेण त्र्यंशव्यवहारयोग्यं भूयिष्ठम् अधिकतरं ते रूपं सान्द्रमोदात्मकं परमानन्दरूपं ततो ब्रह्माण्डाद् उपरि वहिर्देशे भाति । तस्मै अपरिच्छिन्नात्मने ॥९॥
एवं ‘यस्मिन्’(ढ.९८. क्ष्लो. १) इत्यारभ्य विंशत्या क्ष्लोकै सगुणनिर्गुणभेदेन भगवन्तं स्तुतिमिषेणानुसन्दधानः स्वस्य तत्रानधिकारमाशङ्कमानोऽभीष्टायां मूर्तौ चित्तमवतारयितुमारभते-
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत् तु शुद्धैकसत्त्वं |
अव्यक्तमिति । ते अव्यक्तं केनापि न व्यज्यत इत्यव्यक्तं ब्रह्मस्वरूपं दुरधिगमतमम् अतिशयेन दुरधिगमं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, “क्लेशोऽधिकतरस्तेषांमव्यक्तासक्तचेतसाम्” (भ.गी. १२.५) इति भगवद्वचनात् । तत् शुद्धैकसत्त्वं शुद्धसत्त्वात्मकं तु ते स्वरूपं व्यक्तं ज्ञातुं शक्यम् । अपिच एतदेव श्रीकृष्णादिरूपम् अमृतरसाम्भोधिकल्लोलतुल्यं ब्रह्मानन्दामृतरसाम्भोधेः कल्लोलेन तुल्यं मुखसेव्यम् । यस्मादेवं[३] तत् तस्मात् सर्वोत्कृष्टामभीष्टाम् इह भगवति ये गुणा भक्तवात्सल्यादयः त एव रसाः आस्वादनीयत्वात् तेनैव चित्तं हरन्तीं मनोहरां ते मूर्तिमहं संश्रये स्तोतुं ध्यातुं वा समारभे । हे पवनपुरपते ! श्रीकृष्ण ! मां रोगात् संसारलक्षणात् पाहि ॥१०॥
इति भगवन्महिमानुवर्णनमेकोनशततमं दशकम् ।