सर्वविनाशे ईश्वरस्यापि नाश[१] इति किं न स्यादित्यत्राह—गम्भीर इति । गम्भीरे अप्रतर्क्ये तमसि सुषुप्तौ जायमान इति । अयमभिप्रायः – सर्वसंहारे सुषुप्तौ सति सकलजगन्निदानभूतमज्ञानं तमश्शब्दवाच्यं न लयं [२] गच्छति, अन्यथा जगत: पुनरुत्पत्त्यभावात्, सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्युत्थितस्य परामर्शानुपपत्तेश्चेति । एवञ्च तदापि वितिमिरः नित्योदितानस्तमितप्रकाशरूपतयाज्ञानसाक्षित्वेन भासि । द्रष्ट्रभावे दृश्यासिद्धेरित्यभिप्रायः । य एवम्भूतः, तस्मै नमस्ते ॥४॥
नन्वीश्वरस्य जगत्कारणत्वमसिद्धं वादिविप्रतिपत्तेरित्याशङ्कायां संज्ञाभेद एव विप्रतिपत्तिः न संज्ञिनीत्याह -
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् ! काल इत्यालपन्ति |
शब्दब्रह्मेति[३] । त्वामेकमेव शब्दब्रह्मेत्यादिभिः शब्दैः विश्वहेतुं जगत्कारणमालपन्ति वादिनः । शब्दब्रह्म जगत्कारणमिति[४] केचिदालपन्ति, केचित्[५] कर्म जीवादृष्टमिति, अन्ये परमाणुरिति, अपरे काल इति । एषां शब्दानां त्वमेक एवाभिधेय इति भावः । अत्र हेतुः - सकलमयतया तव सर्वात्मकत्वेन । सर्वथा तत्तद्दर्शनानुसारेण शब्दब्रह्मादिरूपेण तवैव कल्प्यमानत्वादित्यर्थः । सिद्धान्तमाह—वेदान्तैरिति । वेदान्तैस्तु यत् पुरुषपरचिदात्माभिधं तत्त्वं, तत्तु प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृद् गीतमित्यन्वयः । अत्र पुरुष: 'मायायां बिम्बि- तस्त्वम्' (क्ष्लो. ४) इति प्रागुक्तंः, परः मायासम्बन्धरहितः, चिदिति शुद्धचैतन्यम्, आत्मा सर्वानुगतः । पुरुषादिशब्दा अभिधा यस्य तत् तथा । तत्तु तदेव तत्त्वं परं ब्रह्म प्रेक्षामात्रेण मायाप्रेरणमात्रेण मूलप्रकृतिर्माया, तस्या विकृतिः कार्यं जगत्, तत् करोतीति तथा । ननु प्रकृतेः कार्य कथं ब्रह्म करोतीति[६] । उच्यते । यथा राजा प्रेक्षणमात्रेण सन्निधिं प्राप्तया प्रतीहार्या कर्म करोति, तद्वत् स्वसमवेतक्रिया-