लादिष्वपि सममतिः सन् । अत्रोपायमाह – मुच्यमानेति । ऐकात्म्यज्ञानबलेन मुच्यमाना अवमानस्पर्धासूयादयो देहाभिमानकृता दोषा यस्यैवम्भूतः सन् त्वाम् अखिलभूतेषु सततं संपूजये । अथवा सममतित्वस्यावान्तरफलमाह मुच्यमानेति । अवमानादिदोषनाश एवावान्तरफलम् ॥ २ ॥
एवं समदृष्टयोपासनस्यावधिमाह
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं |
त्वद्भाव इति । एषु दस्युविप्रादिषु सर्वजन्तुष्वपि त्वद्भावः तवान्तर्यामिरूपेणावस्थानं याव[१]त्कालपर्यन्तं न विशदं स्फुरति न सम्यगनुभवपदवीमवतरति, तावत्कालपर्यन्तम् एवं हि पूर्वोक्तप्रकारेणैव उपास्ति कुर्वन् त्यक्तलज्जश्च चण्डालादिभ्योऽप्यन्तर्यामिरूपेणेश्वरोऽत्र वर्तत इति दृष्ट्या नमस्कारादि कुर्वन्नित्यर्थः । ततश्च झटित्यैकात्म्यबोधे विकसति सर्वभूतेष्वेक एवात्मेति ज्ञानेऽनुभवरूपे सति अहं त्वन्मयश्चरेयम् । हे भगवन् ! त्वद्धर्मस्य भागवतधर्मस्यास्य प्रस्तुतस्यारब्धस्य तावद् आदित आरभ्य यावत्समाप्ति किमपि किञ्चिदपि प्रणाशो वैकल्यं न भवति यथा यागादेः । तस्माद् अनुष्ठानादिसौकर्याद् मम मनोज्ञं समीचीनं भक्तिमार्ग प्रेमलक्षणाया भक्तेः साधनरूपं भगवद्धमै सर्वात्मना तदपेक्षिताधिकाराङ्गादिसहितं प्रदिश, मां तत्राधिकारिणं कुर्वित्यर्थः ॥ ३ ॥
आरोग्यहीनो न कुत्रापि कर्मण्यधिकारीति तदेवे प्रार्थयते ---
तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायु- |
- ↑ 'नत्पर्य' ख. पाठः.