अथ गुणत्रयवृत्तिजयेन द्वन्द्वोपरमाय त्रैगुण्यविभागमाह -
त्रैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य- |
त्रैगुण्यादिति । इह भुवने ज्ञानादि यद् वस्तु तत् सर्वं त्रिगुणमयत्वाद् भिन्नरूपम् अत एव हीनमध्योत्तमं च भवति । तत्र सर्वभूतेष्वात्मन एकत्वज्ञानं सात्त्विकं, पृथक्त्वेन ज्ञानं राजसं, बालादितुल्यं ज्ञानं तामसम् । श्रद्धा चाध्यात्मिकधर्माधर्मविषयतया त्रिधा । कर्ता च वैराग्यरागाज्ञानभेदेन त्रिविधः । वनग्रामघूतसदनभेदेन वसतिरपि त्रिधा । आत्मानुभवसुखं विषयसुखं निद्राद्युत्थसुखमिति तच्च त्रिविधम् । ईश्वरार्पितकाम्यनिषिद्धभेदेन कर्मापि त्रिविधम् । शुद्धमिन्द्रियप्रेष्ठमशुंचि चेत्याहारद्रव्यमपि त्रिविधम् । एतत् सर्वमीश्वरविषयतया निर्गुणं भवतीत्याह—त्वत्क्षेत्रेति । इह पुनस्त्वत्क्षेत्रत्वान्निषेवादि तु यत् तत् त्वत्परं न फलपरं चेद् भवति, तर्हि तत् सर्वं नैर्गुण्यनिष्ठं निर्गुणं प्राहुः । तदनुभजनतो मङ्क्षु झटिति मुक्तो भवेयम् ॥ १ ॥
सम्प्रति ' श्रीकृष्ण! त्वत्पदोपासनम्' ( दश. ९०. क्ष्लो. १) इति प्रस्तुतं भागवतं धर्ममुपसंहरति द्वाभ्यां -
त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं |
त्वय्येवेति । सर्वा विहिता अविहिताश्च चेष्टाः कर्माणि त्वदर्थं कुर्वन्निति शेषः । त्वद्भक्तैः सम्प्रति सेव्यमानान् चरितचरान् तैरेव पूर्वं सेवितान् । अथवा त्वद्भक्तैः सेव्यमानान् देशान्, तैश्चरितचरान् पुण्यान् पुण्यकर्माणीति विभज्य योजना । दस्यौ नीचे विप्रे उत्तमे मृगादिष्वपि । आदिशब्देन चण्डा-