त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । |
त्रपाजुप इति । त्रपाजुषः श्रीपतये पृथुकप्रसृतिप्रदानलज्जयावाङ्मुखाद् बलात्कारेण पृथुकं प्रगृह्य त्व[१]या मुष्टौ सकृदाशिते सति रमा श्रीः सम्भ्रमादुपेत्येयता प्रसादेन कृतं कृतम् अलमलं ननु इतोऽधिकत्वत्प्रसादोचित सम्पत्सम्पादनेऽहमसमर्थेति ते करं रुरोध किल ॥ ६ ॥ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बतापरेविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ७ ॥
भक्तेष्विति । भक्तेषु उद्धवादिषु भक्तेन प्रीतियुक्तेन त्वया सः कुचेलः मानितः पूजितः, बतेति खेदे, अपरेधुः श्वोभूते द्रविणं धनं विना ययौ । विचित्ररूपः समक्षासमक्षादिभेदन बहुप्रकारः ॥ ७ ॥ यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यो किमिति व्रजन्नसौ । त्वदुक्तिलीलास्मितमनधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ ८ ॥
यदीति । यद्यहमयाचिष्यं, तर्ह्यच्युतोऽदास्यत् । नाहं याचितवान् अच्युतश्च न दत्तवानित्यर्थः । अतो भार्थी किं वदामीति चिन्तयन्नेव व्रजन् तवोक्तौ लीलायां स्मिते च मना धीर्यस्य । मणिभी रत्नैः दीपं दीपनशीलम् आलयं निजभवनं क्रमादपश्यत् ॥ ८ ॥
किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श बहुभाम् । |
किमिति । किं मार्गविभ्रंशः पुनरपि द्वारकामागतवानहमिति क्षणकालं भ्रमन् गृहं प्रविष्टः वल्लभां दृष्ट्वा महाद्भुतां त्वत्करुणामात्मसम्पदं तद्धेतुकां बुबोध च ॥९॥
- ↑ 'या पृथुकमु' क. ग. पाठः.