शिष्टैर्दुष्टजनैक्ष्च दृष्टमहिमा प्रीत्या च भीत्या ततः |
शिष्टैरिति । यिष्ठैः सज्जनैः प्रीत्या हटो महिमा अद्भुतपराक्रमो यस्य । दुष्टजनैः भीत्या दृष्टमहिमा सन् सायं सन्ध्यायां वाटिकां शकटस्थानं गतः श्रीदाम्नाप्तेन गोपेन । अवतारकार्यघटनात् कंसे हते तच्छृशुरस्य मागधस्य परिभवात् तस्य तद्वन्धूनां शिशुपालदीनां च वधो भावीत्यादिचिन्तया भूभारहरणनिर्वाहदर्शनादानन्दन् ॥ १० ॥
इति भगवतो मथुरापुरीप्रवेश-रजकनिग्रह-वायकमालाकार-
कुब्जानुग्रह-धनुर्भङ्गादिवर्णनं
चतुस्सप्ततितमं दशकम् ।
प्रातः सन्त्रस्तभोज क्षितिपतिवचसा प्रस्तुते मल्लतूर्ये |
प्रातरिति । अपरेपुः प्रातः सन्त्रस्तन्य देवक्या अष्टम पुत्रतया अतिमानुषेण पराक्रमेग चायं मां ह[१]निष्यतीति भीतस्य (कंसन्य) वचसा आज्ञया मल्लतूर्ये मल्लक्रीडानुसारिवाद्यप्रयोगे प्रस्तुते आरब्धे सति । अभिययुषि आरूढे च सति । महामात्रप्रणोदात् कुपितेन कुवलयापीडाख्येन नागेन अवलीढं विघ्नितप्रवेशं मल्लरङ्गद्वारं गतोऽभूः ॥ १ ॥
पापिष्ठापेहि मार्गाद् द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे- |
- ↑ 'वधिष्य' ख. पाठ:.