सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६३]
२२१
गोवर्धनोद्धरणवर्णनम् ।


 कुल इति । इह कुले गोत्रः पर्वतो दैवतम् । स गोवर्धनो गोत्रशत्रोरिन्द्राज्जातां विहतिं नाशं रुन्ध्यात् । अस्मिन् मदुक्ते वः कः संशयः, यतो गोत्राणाद् गोत्रो गोवर्धन इति []चास्य संज्ञा । उदमुमूल उन्मूलितवानसि ॥ ३ ॥

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
 सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान् धेनुगोपानधस्ता-
 दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ४ ॥

 तदन्विति । सिकतिले वालुकाप्राये मृदुनि स्निग्धे देशे वारिता बहिष्कृता आपो यस्मात् तत्र गिरिवरस्याधस्तात् परिकरैः शिक्यभाण्डादिभिः परिमिश्रान् उपनिदधत् प्रवेशयन् अधत्था धृतवान् ॥ ४ ॥

भवति विधृतशैले बालिकाभिर्वयस्यै-
 रपि विहितविलास केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्डू-
 यति सति पशुपालास्तोषमैपन्त सर्वे ॥ ५ ॥

 भवतीति । केलिलापादौ क्रीडासल्लाँपादौ लोले सकुतुके तोषं सन्तोषमैषन्त । बालिकाबालनर्मालापैकहस्तधेनुकण्डूयनादिभिरपगताचलपतनभयाः सन्तोषं प्राप्ता इत्यर्थः ॥ ५ ॥

अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिसकथि गोपकैः ॥ ६ ॥

 अतीति । करसरोरुहि कराब्जे धरते दधाति, किमिदमद्रेर्बलं पक्षरहितस्याप्युड्डयनशक्तिर्नु इत्याकथि कथ्यते स्म ॥ ६ ॥


  1. ’वा(च्य?स्य) सं’ ख, पाठः.