सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिः तस्याः पुनस्तद्दलभागकानां कोटेश्च कोटयंशदलस्य चैवम् । अन्यज्यकासाधनमुक्तमेवं पूर्वैः प्रवेचवेऽथ विशिष्टमस्मात् ।। ११ । त्रिज्याभुजज्याहतिहीनयुक्त भुजोनयुक्तत्रिभखण्डयोज्यें त्रिज्याकृती तद्दलयोः पदे स्तः । कोटिं भुजज्यां परिकल्प्य चैवम् || १२ | यद्दोर्ज्ययोरन्तरमिष्टयोर्यत् कोटिज्ययोस्त कृतियोगमूलम् । दलीकृतं स्याद् भुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ॥ १३ ॥ दोः कोटिजीवाविवरस्य वर्गों दलीकृतस्तस्य पदेन तुल्या । स्यात् कोटिबाह्रोविंबरार्धजीवा' बच्थेऽथ मूलग्रहणं विनापि ।। १४ । दोर्ज्याकृतिर्व्यासदलार्धभक्ता लब्धत्रिमौव्योंविंवरेण तुल्या । दोःकोटिभागान्तरशिञ्जिनी स्याज्ज्यार्धानि वा कानिचिदेवमत्र ||१५| स्वगोऽङ्गेषुषडंशेन ६५६९ वर्जिता भुजशिजिनी । कोटिज्या दशभिः क्षुण्णा त्रिसप्तेषु ५७३ विभाजिता ॥ १६ ॥ तदैक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी । प्रथमज्या भवदेवं षष्टिरन्यास्ततस्तत ॥ १७ । व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः । कोटिजीवा शताभ्यस्ता गोदस्रतिथि १५२९ भाजिता ॥ १८ ॥ २ दोर्ज्या स्वाद्यङ्गवेदांश ४६७ हीना तद्योगसंमिता । तदग्रज्या तयोश्चापि विवरं पूर्वशिञ्जिनी ।। १९ । तच्चदस्रा नगांशोना २२४ | ५१ एवमत्राद्यशिञ्जिनी । ज्यापरंपरयैवं वा चतुर्विंशतिमौविंकाः ।। २० । चापयोरिष्टयोदोर्थे मिथःकोटिज्यकाहते । त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य दोर्ज्यका || २१ । ५२७ १. अत्र श्रीम० देव:- कोटिज्ययोर्दोर्ज्यकयोश्च घातौ युत्या तयोरूनयुता क्रमेण । त्रिज्याकृतिस्तद्दलयोः पदे स्तो दो: कोटिजीवे विवराधंजाते ॥ २. अत्र स्वाङ्गाङ्गेषुषडंशेनेति पाठ : साधुः ।