३६८ सिद्धान्तशिरोमणौ गोलाध्याये तिपुरुषौ क्षोभयति । तथा तानि भूतानि कर्मपुटान्तरत्वात् प्रकृतेः स्वत एव निःसरन्ति । यथाह श्रीविष्णुपुराणे पराशरो जगदुत्पत्तिकारणम्- प्रधानकारणीभूता यतो वे सृज्यशक्तय इति । सृज्यशक्तयस्तत्कर्माणि । तान्येव सृष्टी मुख्यं कारणम् । इतराणि निमित्तकारणानि । अन्येरप्युक्तम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । नह्यात्मनां भवति कर्मफलोपभोगः कायाद्विनेत्यादि । अस्मिन् प्रलयेऽखिलाया भुवो नाश इत्यर्थः । तथा ज्ञानाग्निदग्धाखिलपुण्यपापा यो- गिनो विषयेभ्यो मनः सामाधाय समाहृत्य तद्धरौ समाहितं कृत्वा यान्ति । वेहं त्यजन्ति | अनिवृत्ति यान्ति । स आत्यन्तिको लय इति ॥ ६२-६५ । अथ ब्रह्माण्डगोलमाह -- भूभूधरत्रिदशदानवमानवाद्या ये याश्च धिष्ण्यगगनेचरचक्रकक्षाः । 'लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्रह्माण्डभाण्डजठरे तदिदं समस्तम् ।।६६। वा० भा० – स्पष्टम् ।। ६६ । इदानीमन्योदितं ब्रह्माण्डमानं पूर्वं कथितमपि प्रसङ्गादनुवति स्म । कोटिघ्नैर्नखनन्दपट्कनखजङ्गेन्दुभि १८७१२०६९२०००००००० ज्र्ज्योतिश्शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपुटतटे केचिजगुर्वेष्टनं केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः ||६७॥ करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् । दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः ॥६८। ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि । यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं नः ||६९ । वा० भा० – प्रमाणशून्यत्वात् प्रयोजनाभावाच्चास्माभिर्ब्रह्माण्डमानं मित्यर्थ: ।। ६६-६९ । न कथित- इति गोलभाष्ये भुवनकोशः । १. अत्र श्रीपतिः 'ब्रह्माण्डभाण्डोदरवतकृत्स्नमेतद्यदुक्तं क्रमशो यथाऽत्र । तस्यैव बाह्यः परिधिः खकक्षा विवस्वतः सा महसां च सीमा ॥' सि० शे० १५ अ० ४१ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१०
दिखावट