त्रिप्रश्नाधिकारः १४९ मिष्टकालपलेभ्यः ६०० शोधितो जातम् ४३३ | एवं कृते कन्यावधिः शुद्धो जातः । अस्मादपि तुलोदयेऽ ३३५ स्मिन् शोधिते जातं ९८ एतावता तुलावधिः शुद्धः । तत इदं त्रिंशता सगुण्य वृश्चिकोदयेन भक्ते लब्धांशाः ||८||३१||१८| एतेष्वंशेषु |८|३१||८|| तुलावधावस्मिन् |६|१२||३१|१८ योजितेषु जातं स्पष्टं लग्नं भवति । यद्वा येनाशुद्धराश्युदयेन लब्धांशाः साध्यन्ते तद्राशावेव लग्नमिति लाघवेनाशुद्ध- पूर्वैर्भवनैरजाद्यैर्युक्तं तनुः स्यादित्युच्यते । अत्र प्रत्यंशं ज्योत्पत्तिप्रकारेण जीवास्ताभ्यो युज्याश्च संसाध्य " मेषादि- जीवास्त्रिगृहयुमौर्व्या क्षमाहताः स्वस्वदिनज्यये' त्यादिना प्रत्यंशानामुदया: साध्या- स्तैरुदयैः साध्यमानं लग्नमतीव सूक्ष्मं भवति । मेषादिजीवा इत्यत्र वासनान्यथोच्यते – २' एकस्य राशेर्महतीज्यकाया द्वयोस्त्रि- भस्यापीति' प्रथमप्रकारेणोदय एकस्य राशेः साध्यते । तत्रैकराशिज्या जिनज्यागुणा त्रिज्यया भाज्या प्रथमराशेः क्रान्तिज्या भवति । एकराशिज्याजिनज्याघातस्त्रिज्यया भाज्य: क्रान्तिज्येति जातम् । अस्याः वर्गो जात एकराशिज्यावर्गो जिनज्यावर्गभक्तः । अयं क्रान्तिज्यावर्ग एकरा शिज्यावर्गाच्छोध्यः । समच्छेदविधानेन 'योगोऽन्तरं तुल्य- ह्रांशकानामित्युक्तेः' । तत्र गुण्यगुणकयो: कामचार इति एकराशिज्यावर्गगुणो जिन- ज्यावर्गं एकराशिज्यावर्गगुणात् त्रिज्यावर्गाच्छोध्यस्त्रिज्यावर्गेण भाज्य इति जातम् । ततोऽस्य मूलं त्रिज्यय़ा गुणनीयमित्ययमेव त्रिज्यावर्गेण गुणनीयः । तत्र गुणहरयो - रन्तरे वा कृते तुल्यफलत्वात् । जिनज्यावर्ग एव त्रिज्यावर्गाच्छोधिते त्रिभयुज्यावर्ग •एवावशिष्यते । त्रिभद्युज्यावर्ग एकराशिवर्गेण गुणनीय इति सिद्धम् । ततोऽस्य मूले गृहीते एकराशिज्या त्रिभद्युज्यागुणा भवति । स्वस्वयुज्याहरणं प्रथमप्रकारेणैव सिद्धमिति सर्वमुत्पद्यते । अत्रैकराशिरित्युदाहरणदर्शनार्थमुक्तम् । तस्मात् 'मेषादिजी- वास्त्रिगृहयुमौर्व्या क्षुण्णा हृताः स्वस्वदिनज्यया' इति प्रथमप्रकारादेकस्यराशेर्मंहती- ज्यकायेत्यादेः खण्डक्षोदेन प्रकार उत्पद्यते । 'तनुः स्यादयनांशहीन' मित्यत्र 'संशोध्य- मानं स्वमृणत्वमेति स्वत्वं क्षयः' इति सूत्रेणैवायनांशा हीनाः कार्याः । ४'युक्तायनां- शादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ' इत्यत्रापि क्षयात्मकायनांशेषु 'धनर्णयोरन्तरमेव योगः' इति योगः कार्यः । 31 'इष्टासु सङ्घादपनीय भोग्यानित्यत्र' भोग्यासवो बहुत्वेन यदा न शुद्धयन्ति तदा कथं लग्नसाधनमित्यत आह— 'इष्टासवोऽल्पा यदि भोग्यकेभ्यः' इति । स्पष्टम् ॥२-४॥ इदानीं लग्नात् कालानयनमाह- अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढ्यः समयो विलग्नात् । यदैकभे लग्न तद्भागान्तरघ्नोदयखाग्निभागः ।। ५ । १. सि० शि० ग० स्पष्टा० ५७ इलो० । ३. सि० शि० ग० स्प० ५७ श्लो० । २. सि० शि० ग० स्पष्टा० ५४ श्लो० । ४. सि० शि० ग० प० ४७ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९४
दिखावट