स्पष्टाधिकार: इदानीं गतिस्फुटीकरणमाह - दिनान्तरस्पष्टखगान्तरं स्याद् गतिः स्फुटा तत्समयान्तराले || ३६ ।। कोटीफलघ्नी मृदुकेन्द्रभुक्तिस्त्रिज्योता ककिंमृगादिकेन्द्रे । तया युतोना ग्रहमध्यभुक्तिस्तात्कालिकी मन्दपरिस्फुटा स्यात् ||३७|| समीपतिथ्य न्तसमीपचालनं विधोस्तु तत्कालजयैव युज्यते । सुदूरसंचालनमाद्यया यतः प्रतिक्षणं सा न समा महत्वतः ॥ ३८ ॥ वा० भा० – अद्यतनश्वस्तन स्फुट ग्रहयोरौयिकर्यादिनार्धंजयोर्वास्त कालिकयोर्वा यदन्तरं कलादिकं सा स्फुटा गतिः । अद्यतनाच्छ्वस्तने न्यूने वक्रा गतिज्ञेया। तत्समयान्तराल इति । तस्य कालस्य मध्येऽनया गत्या ग्रहश्चालयितुं युज्यत इति । इयं किल स्थूला गतिः । अथ सूक्ष्मा तात्कालिकी कथ्यते । तुङ्गगत्यूना चन्द्रगति: केन्द्रगतिः । अन्येषां ग्रहाणां ग्रह- गतिरेव केन्द्रगतिः । मृदुकेन्द्रकोटिफलं कृत्वा तेन केन्द्र तिर्गुण्या त्रिज्यया भाज्या लब्धेन कर्यादिकेन्द्र ग्रहगतिर्युक्ता कार्या। मृगादौ तु रहिता कार्या । एवं तात्कालिकी मन्दपरि- १. अत्र लल्लः --- ज्याखण्डकेन गुणिता मृदुकेन्द्रजेन भुक्तिर्ग्रहस्य शरयुग्मयमैविभक्ता । क्षुण्णा स्फुटेन गुण केन हुता खनागलिप्ता गतेः फलमृणं धनमुक्तवच्च ॥ श्रीपतिः- ( शि० धी० ग्र० ग० स्प० ३८ श्लो० ) मन्दकेन्द्रगतिरर्कंचन्द्रयोर्ज्यान्तरेण गुणिता हृताद्यया | जीवया स्वपरिणाहताडिता खर्तुरामविहृता गतेः फलम् ॥ अस्मिन् भक्ते जातम् ( शि० शे० स्प० ४० श्लो० ) अत्र बापूदेवोक्तो विशेषः । कोटीफलघ्नीत्याद्युक्तप्रकारेणानीतं मन्दगतिफलं स्वल्पान्तरम् ॥ तस्याद्यतनश्वस्तन फल- ज्ययोरन्तरत्वात् । सूक्ष्मं त्वद्यतनश्वस्तनफलान्तरमेव । तच्च साधितज्यान्तरानुपातेनावगन्तुं सुश- कम् । तथाहि । अद्यतनफलस्य जोवायां क्रियमाणायां यद्भोग्यखण्डं तेन यदि शरद्विदस्र- मितं चापान्तरं लभ्यते तदा साधितज्यान्तरेण किमित्यनुपातेन शरद्विदस्रघ्नं साधितज्यान्तरं भोग्यखण्डहृतमद्यतनश्वस्तनफलान्तरं स्यात् । तत्र त्रिज्यातुल्यया कोटिज्यया शरद्विदस्रमितं मोग्यखण्डं तदा फलकोटिज्यया किमित्यनुपातेन शरद्विदस्रघ्नी फलकोटिज्या त्रिज्यया भक्ता फकोज्या २२५ कोफ. केग २२५ स्फुटभोग्यखण्डं स्यात् -। अनेन साधितज्यान्तरे शरद्विदस्रघ्ने त्रि १ त्रि १ त्रि. कोफ. केग २२५ अत्र त्रिज्यातुल्ययो. शरद्विदस्रतुल्ययोश्च गुणकभाजक- त्रि फकोज्या २२५ कयोर्नाशे कृते कोटीफलघ्नी मृदुकेन्द्रभुक्तिः फलकोटिज्यया विहृतेति सिद्धम् । इदमेव सूक्ष्मं मन्दगतिफलम् । मन्दफलान्तरत्वात् । आचार्योक्तं तु स्थूलं फलज्यान्तरत्वात् ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६४
दिखावट