सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः ११७ वा० भा० – भुजज्या त्रिज्यया गुण्या कर्णेन भाज्या लब्धस्य यच्चापं तस्य बाहोश्च यदन्तरं तद् ग्रहस्य शीघ्रफलम् । परमत्र बाहुः प्रतिमण्डलस्य ज्ञेयः । अथ तद्द्बाहुज्ञानार्थमाह- 'चापेन शोघ्रान्त्यफलज्यकाया' इति । ग्रहस्य परमेण शीघ्रफलेन युतोनोनयुतं कार्यम् । किम् । राशित्रयं चतुःस्थम् | तानि प्रतिमण्डलपदानि भवन्ति । तद्यथा बुधस्य परमं शीघ्रफलमेक- विशतिभागाः पादोनद्वात्रिंशत्कलाधिकाः २१ । ३१ | ४३ । अनेन कृतानि पदानि | एतानि बुधस्य प्रतिमण्डलपदानि । यदा प्रतिमण्डलभुजः क्रियते तदायुग्मे पढ़े यातमेष्यं ३ २ २ ३ तु युग्म इत्यादिनैव । तद्यथा | यदा सार्धराशित्रयस्य केन्द्रस्य २१ ८ ८ २१ भुजः क्रियते तदा तावानेव भवति । यदा सार्धराश्यष्टकस्य २८ २८ ३१ केन्द्रस्य भुजः क्रियते तदा सार्धराशित्रयं भवतीति ज्ञेयम् । १७ ४३ तच्चापबाह्रोविवरं फलं वेत्यत्रायं बाहुर्ज्ञेय इत्यर्थः । अत्रोपपत्तिस्त्रैराशिकेन । कर्णोच्चरेखयोरन्तरं यदि कर्णाग्रे भुजज्यातुल्यं भवति तदा त्रिज्याने किमिति । फलं स्फुटग्रहोच्चरेखयोरन्तरं ज्यारूपं स्यात् । तच्चापस्य प्रतिमण्डल- बाहो यदन्तरं तच्छीघ्रफलं स्यात् । अतोऽत्र प्रतिमण्डलस्य बाहुः । यतः प्रतिमण्डलस्यौज- पदान्तं यावत् फलस्योपचयः ततोऽपचयः । तथाचोक्तं गोले- ४३ कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य ॥ ३३-३३३ ॥ वा० वा० – अथ केवलप्रतिमण्डलादेव शीघ्रफलमाह - त्रिज्याहता कर्णहृता भुजज्येति । कर्णाग्रे चेदियं भुजज्या तदा त्रिज्याग्रे केति जाता कक्षामण्डले । कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते खेटस्य परमफलेन भाव्यमिति तच्चाप- प्रतिमण्डलबाह्वोरित्युक्तम् । कथं प्रतिमण्डलस्थो बाहु ह - 'चापेन शीघ्रान्त्यफलज्यकायाः' इति । अत्र त्रिभोनं भुजो न भवतीत्याह – दोस्तेष्विति ॥ ३३-३३३ ॥ शीघ्र कर्णहृता लब्धं फलकोटिज्यका भवेत् । तच्चापांशोनिताः खाङ्काः स्युः शीघ्रफलभागकाः ॥ एवं द्राक्फलतः शीघ्रकेन्द्रभुजांशानयनम् । - फलान्स्यफलयोर्जीवावर्गयोरन्तरात् पदम् । फलकोटिज्यया निघ्नं केन्द्रे कर्किमृगादिके || फलज्याकृतियुक्तोनं भक्तमन्त्यफलज्यया । लब्धचापलवा: खाङ्कच्युता द्राक्केन्द्रदोलँवाः || यद्वा । फलान्त्यफलशिञ्जिन्योर्योगान्त रहतेः पदम् । फलकोटिज्यका तेन पदेनाढयोनिता क्रमात् ॥ मृगकर्यादिके केन्द्र गुणिता च फलज्यया । भक्तान्त्यफलमौर्व्या स्याच्छीघ्रकेन्द्रभुजज्यका ॥