मध्यमाधिकारे भगणाध्यायः ५१ एभिरूना: भभ्रमाः संशोध्यमानमृणं धनं भवतीति जाताः सावना | चंमा भभ्रमाः १ चंभ १ । एभिरूनाश्चान्द्रन्द्राहा जाता: चंभ १ चंदि १ चंमा भभ्र १ । एवं क्षयाहा भवन्तीत्युपपन्नम् । एतच्छिष्याणां धनर्णयोगवियोगकौशलार्थं दर्शितम् ॥ १३ ॥ वा० वा०— प्रकारान्तरेणाह अन्तरं तरणि चन्द्रे ति `प्राग्गमनशीलयोः सूर्याचन्द्रमसोः प्रतिदर्श यो योगः स त्वेकभगणतुल्यान्तर- मन्तरेणानुपपद्यमान एकस्मिन् चान्द्रे मासि भगणतुल्यमन्तरं गमयति । ततोऽनुपात: (यदि)एकेन भगणान्तरेणैको मासस्तदा कल्पभगणान्तरेण किमिति जाताः शशिमासाः । रविभगणोनाश्चन्द्रभगणास्ते चन्द्रमासाः भवन्तीति सिद्धमस्ति । वैपरीत्येन चन्द्रमासो- नाश्चन्द्रभगणास्ते रविभगणा । रविभगणोना भभ्रमास्ते सावनाः । सावनोना- श्चान्द्रास्ते दिनक्षयाः भवन्ति । यतः सावनचान्द्रान्तरमवमानि । अत्राद्याक्षराण्यु- पलक्षणार्थं लेख्यानि । यानि ऋणगतानि तानि ऊर्ध्वबिन्दूनि च कार्याणीत्यव्यक्त- युक्तया लिख्यते । चं० मा १ चं० भ० १ ४ एते रविभगणा: खण्डद्वयात्मकाः । एभिरूना भभ्रमाः जाता: खण्डत्रयात्मका: सावनाः । संशोध्यमानं " स्वमृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्त वच्च । ६"योगे युतिः स्यात् क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः” । इत्यनेन चां० मा १ चं० भ० १, भभ्र १ । एतदूनाश्चान्द्रास्ते जाता दिनक्षयाः खण्डचतुष्टयात्मका: । चां मा० १ चंभ० १ भभ्र० १ चांदि १ । अत्र धनयोर्योगश्चन्द्र 'चक्रदिवसैक्यम् । एतदूनमृणेन' चन्द्रमासभभ्रमयोगेनातः सर्वमवदातम् । चन्द्रसावनयुतेन्दुमासकास्ते भवन्ति रविसावनास्तु तैः । वर्जितानि शशिनो दिनानि वा सम्भवन्ति खलु ते दिनक्षया: । अयमर्थः चन्द्रभगणोना भभ्रमास्ते चन्द्रसावनास्तेषु चान्द्रमासेषु योजितेषु रविसावना भवन्ति । ततो दिनक्षयसाधनं सुगमम् | नवीनोऽयं प्रकारः । चन्द्रचक्र- दिवसैक्यमित्यत्र चन्द्रभगणा एव दिनानि तदधो यद्राश्यादि तत्पञ्चगुणं विधाय राशि- स्थाने यद्भवति तदेव घटिकाः | तस्माद प्यधो यदंशादि सम्पद्यते तद्विगुणं १० विधाय यदंशस्थाने तदेव पलानि शेषाणि विपलानीति प्रकल्प्य चन्द्रचक्रदिवसैक्यं कार्यम् । यद्वा चन्द्रराश्याद्यस्य ११ कलाः कार्याः । ततोऽनुपात: ( यदि ) चक्रकलाभिः षष्टि- १. प्रगमन ग पु० । ३. ऊर्ध्वं क ख पु० ५. बी० ग० धनर्णव्यवकलने १ श्लो० । ७. श्चंद्रक्रादि ग पु० ९. दथधो क ख ग पु० । ११. श्याकाला ग पुं० २. दशं गपुo | ४. ये ते गपु० ॥ ६. बी० ग० धनर्णसङ्कलने इलो० । ८. मृनोन ग पु० । १०. द्विगुण गपू० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९६
दिखावट