सिद्धान्तशिरोमणौ ग्रहगणिते [ तस्मादिति ] यस्मादिदं प्रशस्तं वेदाङ्गं तन्मध्येऽभ्यहितञ्च तस्मादिदं पठ- नीयम् । 'अष्टमे वर्षे ब्राह्मणमुपनयेत्' 'एकादशे क्षत्रियम्' | द्वादशे वैश्यमिति । उपनयनं नाम गुरुसमीपे नयनम् । गुरुसमीपानीतो माणवक: प्रयोजनमपेक्षते किमर्थमहमानी- तोऽस्मि इति । 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिरध्येतारमपेक्षते । अतः स्वाध्याय- विधिस्तादृशं माणवकं गृहीत्वा चरितार्थो जातः न शूद्रादीन् गृह्णाति । 'मन्त्रब्राह्मण- योर्वेदनामधेयं,’ षडङ्गमित्येके । 'साङ्गो वेदोऽध्येतव्यो ज्ञातव्यश्चेति', 'द्विजानामेवा- ध्ययनं प्राप्तम्। तस्मादध्ययनीयमेतदित्येवाचार्यस्य वक्तुमुचितम् । तत्र द्विजैरिति यदुच्यते तच्छूद्रादिनिवृत्यर्थमिति वासनाभाष्यकारेण सम्यक् परिसंख्यापरं व्याख्या- तम् । विधि-नियमपरिसंख्या - लक्षणं भट्टपादैरुक्तम् । १२ विधिरत्यन्तमप्राप्ते नियम: पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति कीत्यते ॥ चयने मृदाहरणार्थमश्वो गर्दभोऽप्यस्ति तत्र रशनाग्रहणे ब्राह्मणेन मन्त्रो नियोजितः’। ‘इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्त इति । इदमत्रो- दाहरणं परिसंख्यायाः कृतम् । तत्र यावत्पर्यन्तं लिङ्गापरपर्यायसामर्थ्येन मन्त्रोऽश्वर ५ शनाग्रहणेन प्राप्नोति तावत्पर्यन्तं शीघ्रप्रवृत्तया श्रुत्या मन्त्रोऽश्वरशनाग्रहणे नियो- जितः तस्मादयमपूर्वविधिरेव फलतः परिसंख्येत्युच्यते । ५ तदुक्तम्- ""अपूर्वो विधिरेवायमतो मन्त्रस्य निश्चितः । परिसंख्या फलेनोक्ता न विशेषः पृथक्श्रुतेः ॥ इति । बिलम्बेनापि प्राप्स्यतोऽर्थस्य विधानं व्यर्थमिति फलतः परिसंख्येत्युच्यते । पुनः श्रुतेः फलं त्वन्यनिवृत्तिरेव । तदप्युक्तम् । "न गद्दभाभिधानीतः फलमन्यन्निवर्त्तनादिति ।” तस्मान्न किञ्चिद्विरुद्धम् । पुण्यमिति यदुच्यते तच्चतुर्द्दशधर्मविद्यास्थानान्तर्गतत्वात्' । उक्तञ्च — पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुश || वेदोऽखिलो धर्ममूलं १° स्मृतिः शीले च तद्विदाम् । आचारश्चैव साधूनामिति गौतमोक्तेश्च । १. द्विजानमेव ख० पु० । ४. नेयोजि ख पु० ७. अपूर्व क ख पु० । १०. तद्विदां च स्मृतिशीले क० ख पु० | २. ब्राह्मणोन ख पु० । ५ रसना कपु० । ८. प्राश्यतौ ख पु० । ३. मंत्रं ख पु० । ६. प्रवृतया कपु० । ९. गताचात् ख पु०
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७
दिखावट