श्रीगणेशाय नमः । सिद्धान्तशिरोमणिः व।सनाभाष्य-वार्तिकसहितः ग्रहगणिताध्यायः वा० भा० – जयति जगति गूढानन्धकारे पदार्थान् जनघनघृणयाऽयं व्यञ्जयन्नात्मभाभिः | विमलितमनसां रपि च परमतत्वं सहासनाभ्यासयोगे- योगिनां भानुरेक ॥ जयति सर्वोत्कर्षेण वर्त्तते । कः । अयं भानुः सूर्यः । किविशिष्टः । एक अद्वितीयः । कि कुर्वन् । व्यञ्जयन् प्रकाशयन् । कान् | पदार्थान् । काभिः । आत्मभाभिः स्वदीप्तिभिः । क्व । जगति । किंविशिष्टान् पदार्थान् | गूढान् अदृश्यान्। कस्मिन् सति । अन्धकारे सति । कया हेतुभूतया | जनघनघृणा तयेत्यर्थः । न केवलं घटपटावीन् पदार्थान् व्यञ्जयन् | अपि च परम- तत्वं परं ब्रह्म । केषाम् । योगिनाम् । कथंभूतम् । कलुषितमनोभावादज्ञानरूपेण तमसा अति- गूढम् । किंविशिष्टानां योगिनाम् । विमलीकृतचेतसाम् । कैः । सद्वासनाभ्यासयोगः । सतो ब्रह्मणो वासना सद्वासना तस्या अभ्यासयोगास्तरमलीकृतचेतसां योगिनां परमतत्त्वं व्यञ्जयन्नेको रविरेव राजते । अथ निजकृतशास्त्रे तत्प्रसादात् पदार्थान् शिशुजनघृणयाऽहं व्यञ्जयाम्यत्र गूढान् । विमलितमनसां सद्वासनाभ्यासयोगे- हृदि भवति यथैषां तत्त्वभूतार्थबोधः ॥ वासनावगतिर्गौलानभिज्ञस्य न जायते । व्याख्याताः प्रथमं तेन गोले या विषमोक्तयः ॥ तत्रादौ तावदभीष्टदेवतां मनोवाक्कायैर्नमस्कृत्य तस्याः सकाशादभीष्टार्थस्याशंसनमाह । यत्र त्रातुमिदं जगञ्जलजिनीबन्धौ समभ्युद्गते ध्वान्तध्व सविधौ विधौतविनमन्निःशेषदोषोच्चये । वर्त्तन्ते क्रतवः शतक्रतुमुखा दीव्यन्ति देवा दिवि द्राङ्नः सूक्तिमुचं व्यनक्तु स गिरं गीर्वाणवन्द्यो रविः ॥ १ ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८
दिखावट