भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् |
राजेति । राजा एकसमामेकसंवत्सरमनाश्वान् अनश्नन्नब्भक्षो भूत्वा मुनिं प्रतीक्ष्य प्रतिपाल्य साधु सम्भोज्य तच्छेषं स्वयं भुक्त्वा विसृजन्ननुज्ञाय ततोऽपि पूर्वस्मादपि त्वयि रतो भक्तोऽभूत् । अन्ते सायुज्यं मोक्षं चाप ॥ १० ॥
इत्यम्बरीषचरितवर्णनं त्रयस्त्रिशं दशकम् ।
अथ श्रीरामचरितं प्रस्तौति -
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे |
त्वं श्रीहरिरेव रामो जात इत्युक्तम् । तदुपपादयति-
कोदण्डी कौशिकस्य ऋतुवरमवितुं लक्ष्मणेनानुयातो |
कोदण्डीति । बाल्य एव दुष्टनिग्रहशिष्टपरिपालनसज्जनबहुमानादिः केवलमनुष्यसम्बन्धी न भवतीति भावः ॥ २ ॥
अपिच, मुनिपत्न्याः शापमोक्षो महेश्वरचापखण्डनादि चास्य विष्ण्वंशत्वं प्रकटयतीत्याह
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् |