सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथाष्टमस्कन्धपरिच्छेदः ।


मन्वन्तराख्यः सद्धर्मो मन्वादिप्रतिबोधितः ।
लक्ष्यतेऽष्टमनिर्दिष्टो हरिलीलोपबृंहितः ॥

 अथापदि श्रीहरौ मनोनिवेशनं धर्मसारांशभूतमिति गजेन्द्रदृष्टान्तेन दर्शयिप्यन् अस्य प्राग्जन्मकथामाह द्वाभ्याम्--

इन्द्रघुम्नः पाण्डचखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।
वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ १ ॥

 इन्द्रेति । पाण्ड्यखण्डो भारतखण्डदक्षिणभागः ॥ १ ॥

कुम्भोद्भूतः सम्भृतक्रोधभार: स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
शप्त्वाथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं वत्स्मृतिव्यक्तिधन्यम् ॥ २॥

 कुम्भोद्भूत इति । हस्तिभूयं हस्तित्वम् । प्रत्यगात् प्रतिनिवृत्तः । त्वत्स्मृतेः प्राग्जन्माभ्यस्ताया व्यक्तिः प्रकाशस्तेन धन्यं पुरुषार्थप्रदम् ॥ २ ॥

दुग्धाम्भोघेर्मध्यभाजि त्रिकूटे क्रीडञ्छैले यूथपोऽयं वशाभिः ।
सर्वान् जन्तूनत्यवर्तिष्ट शक्तया त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ ३ ॥

 दुग्धेति । त्वद्भक्तानां कुत्र केषु योनिषु नोत्कर्षलाभः, यद् गजत्वेऽपि सर्वजन्तूनत्यवर्तिष्ट अतिशयितवान् ॥ ३ ॥

स्वेन स्थेम्ना दिव्यदेहवशक्तया सोऽयं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ ४ ॥

 स्वेनेति । स्वेनानन्यसाधारणेन स्थेम्ना बलेन बलाधिकेतरसत्त्वसमुद्भूतान् खेदान् पीडाः। घर्मतान्तः ग्रीष्मकालोद्भूतेनोष्मणा क्लान्तः । शैलप्रान्ते पर्वतनितम्बवर्तिनि ऋतुमन्नाम्न्युद्याने सरस्यां त्वत्प्रणुन्नो निजपदं प्रापयिष्यतेश्वरेण प्रेरितः ॥ ४ ॥</poem>