स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं |
तत इति । हिरण्यकशिपौ तपसे मन्दराद्रिं गतवति देवा असुरान् निर्जियान्तर्वन्ली प्रह्लादमातरं कयाधुं नेतुमारब्धा नारदवचनाद् विसृज्य प्रतिनिवृत्ताः । देवर्षिस्तु तस्यै महादमुद्दिश्य भक्तिज्ञानमार्गानुपदिदेश । अतोऽसौ शिशुरपि त्वयीश्वरे रतिं प्रेमलक्षणां भक्तिम् ॥ ४ ॥
सुरारीणां हास्यं तव चरणदास्यं निजसुते |
सुरारीणामिति । गुरुभिः शुक्रपुत्राभ्यां शण्डामर्काभ्याम् । गुरुप्रोक्तं त्रिवर्गस्योपायं वार्तादण्डनीत्यादि भेददृष्ट्याश्रितत्वादिदमिदमभद्राय शरीरबन्धेन संसाराय भवति दृढं निश्चितमिति त्वद्भक्तेरन्यत् सर्वमपाकुर्वन् तव चरणभक्त्या केवलया ववृधे । अस्य शरीरवृद्ध्यनुसारेण भक्तिरपि ववृध इत्यर्थः ॥ ५ ॥
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये |
अधीतेष्विति । अथ कदाचित् पित्रा त्वयाधीतेषु मध्ये किं श्रेष्ठमिति तनये प्रह्लादे पृष्ठे सति भवद्भक्ति वर्या श्रेष्ठामभिगदति च सति पर्याकुला चलिता धृतिर्यस्मात् स तथा अस्य मतिः सहजेति गुरुमुखादभिविदन् अस्मिन् प्रह्लादे वधोपायान् व्यतनुत ॥ ६ ॥
वघोपायानाह--
स शुलैराविद्धः सुबहु मथितो दिग्गजगणै- |