पुनरपि बैंकारिकसृष्टिमाइ----
भूमन्! मानसबुद्धचहङ्कतिमिलच्चित्ताख्यवृत्त्यन्वितं |
भूमन्निति । हे भूमन् ! विभो ! तव बलात् त्वत्प्रेरणात् सत्त्वांशः सात्त्विकाहङ्कार एव मानसवुध्धहङ्कतिभिः मिलन्त्या सहितया चित्ताख्यवृत्त्यान्वितं सहितं तत् सत्त्वप्रधानमन्तःकरणं चासुजत् सृष्टवान् । तैजसतः राजसाहङ्काराद् दशानां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च गणो जातः । तस्याहङ्कारस्य तामसांशात् पुनः हे मरुत्पुरपते ! वातालयेश ! त्वद्वलात् त्वत्प्रेरणाद् नभस आकाशस्य तन्मात्रम् अपञ्चीकृतत्वात् सूक्ष्मोंऽशः शब्दः अजानि जातः ॥ ७ ॥
पुनरपि तामसाहङ्कारसृष्टिं प्रपञ्चयति -
शब्दाद् व्योय ततः ससर्जिथ! स्पर्शं ततो मारुतं |
शब्दादिति । हे विभो ! त्वं शब्दाद् व्योम आकाशं ससर्जिथ सृष्टवानसि । ततो व्योम्नः स्पर्श वायुगुणं, ततः स्पर्शाद् वायुं, तस्माद् मारुलाद्रू रूपं तेजोगुणं, अतोऽस्माद् रूपाद् महस्तेजः, अथच अनन्तरम् अर्थात् तेजसो रसम् अब्गुणं, रसात् तोयं, तोयाद् गन्धं पृथिवीगुणं, गन्धादू महपृथिवीं च ससर्जिथ । एवं पूर्वपूर्वैः कलनाद् मेलनाद् उत्तरमुत्तरम् आद्याद्यधर्मेरन्वितमिति । अत्रायमर्थ:- आकाशं शब्दगुणकं, वायुः शब्दस्पर्शगुणकः, तेजः शब्दस्पर्शरूपगुणकं, जलं शब्दस्पर्शरूपरसगुणकं, पृथिवी शब्दस्पर्शरूपरसगन्धवतीति । हे भगवन् ! भजनीयगुण !हे माधव! श्रीपते ! त्वमेवेमं भूतग्रामं सगुणमहाभूतपञ्चकं तामसात् तामसाहङ्कारात् प्राकाशयः प्रकाशितवानसि ॥ ८ ॥