द्यत्तिमिरनिकरं दूरीकुर्वदेवोदेति, तद्वन्ममाज्ञानविजृम्भिताधिव्याधिजालं समूलमुन्मूलयदेव मम हृदि त्वद्र्पमुदेत्विति भावः । एवञ्चाहं भ[१]वति प्रेमातिशयलाभाद्
उदञ्चद्रोमाञ्चालङ्ङ्कृतशरीरः गलितवहुहर्षानियहो वाष्पजलावसिक्कसर्वाङ्गः सन्
दुरुपशमाः शमयितुमशक्या याः पीडा आध्यात्मिकाद्याः, तत्कर्तृकान् परिभवान्
उपद्रवान् यथा सम्यग् विस्मर्यासं विस्मरणं कुर्याम् । अथवा यथा विस्मर्यासं तथा
हृदि त्वद्र्पमुदियादिति सम्बन्धः ॥ ८ ॥
अपिच ----
मरुद्रेहाधीश ! त्वयि खलु पराञ्चोऽपि सुखिनो |
मरुदिति । मरुद्वेहाधीश ! हे श्रीगुरुवायुपुरनाथ ! त्वयीश्वरे पराञ्चोऽपि विमुखा नास्तिका अपि सुखिनो दृश्यन्ते खलु, अन्ये भक्ताः सुखिन इति किमुच्यते । भवतीश्वरे स्नेहोऽस्यास्तीति भवत्स्नेही सोऽहं यः स्नेहे सत्यपि क्लेशाभिभूततया स्मरणादिष्वसमर्थः, सोऽहं सुबहु अधिकं परितव्ये परितापमनुभवामि च किमिदमीश्वरेऽपि वैषम्यमिव । न च तेऽपि जन्मान्तरे [२] भवन्तं सेवितवन्तः, अतः सुखिनो भवन्ति, कुतश्चित्तु कारणात् सम्प्रति त्वयि पराञ्चो जाता इति शक्यं शङ्कितुं, भवत्सेवकानामप्रच्युतिप्रसिद्धिभङ्गप्रसङ्गात् । किञ्च, अहं दुःखिप्वन्तर्भवाणि, नात्र खेदः । तव त्वीश्वरस्यापि जीवेषु[३] वैषम्यमस्तीति दुष्प्कीर्तिः स्यात् । ततश्च जीवानां सेवामान्द्यमपि स्यादित्येव मम खेद इत्याह- अकीर्तिरिति । हे वरद ! कंसदमन! इत्याभ्यां सम्बोधनाभ्यां दुष्टनिग्रहशिष्टाभीष्टदानाभ्यामेवेश्वरस्य शरीरोपादानमिति सत्कीर्तिघोत्यते । तस्यां सत्यां ते तव कुतश्चिदकीर्तिर्दुष्कीर्तिरपि मा भूत् । तत्रोपायमाह - गदभारमिति | गदा रोगा एव भारः सोढुमशक्यत्वात् तं प्रशमयन् मां झटिति अकीर्तिव्याप्तेः पूर्वमेवातिशीघ्रं भवद्भक्तानामुत्तंसमलङ्कारभूतं प्रधानं कुरु । एवंच त्वं चाहं च कृतार्यौ स्व[४] इत्यर्थः ॥ ९ ॥