द्वयाद् भृशम् अतिशयेन उत्तमतरः अत्युत्कृष्टः । अ[१]त्र प्रमाणमाह --- योगीक्ष्वरैरिति, व्यासनारदादिभिः पुराणेषु गीयते वर्ण्यत[२] इत्यर्थः । किञ्च, हे रमावल्लभ ! त्वयि
प्रेम्णो यः प्रकर्षोऽतिशयः, तदात्मिका तत्स्वरूपा भक्तिः निःश्रमम् अनायासं यथा
भवति तथा विश्वपुरुषैः सकलजनैः लभ्या खलु, नात्र सन्देह इत्यर्थः । तत्र हेतुमाह - सौन्दर्यैकरसात्मक इति । सौन्दर्यमेकमेव रस आत्मा स्वरूपं यस्य स तथा,
तस्मिन्नित्यर्थः ॥ ७ ॥
निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं |
निष्काममिति । कर्मयोग इत्यभिधा[३] नाम यस्य, तत् कर्मयोगाभिधम् । निर्गतः कामः फलाभिसन्धिर्यस्मात् तन्निष्कामं, तादृशम् । निय[४]तस्य नित्यनैमित्तिकादेः स्वधर्मस्य[५] विहितस्य चरणम् अनुष्ठानं यत्, तद् दूरेत्यफलं [६] दूरेत्यं दूरभवं फलं यस्य, कालान्तरे फलप्रदम् । औपनिषदम् उपनिषत्प्रतिपाद्यं ब्रह्म, तस्य ज्ञानेनोपलभ्यं मोक्षाख्यं फलं यत् तत् पुनरव्य क्त्ततया करणागोचरतया चित्तस्य सुदुर्गमतरं कथञ्चनापि प्राप्तुमशक्यं निरस्तसमस्तैषणानां संन्यस्तसमस्तकर्मणामेव तत्राधिकारात् । हे विभो ! कर्मज्ञानभक्तिमार्गनिष्ठानामप्यभीष्टफलप्रदानसमर्थ ! तस्मात् त्वयि प्रेमात्मिका भक्तिरेव सततम् उत्पत्तौ उत्पन्नायां फलप्राप्तौ च स्वादीयसी अतिशयेनास्वादनीया श्रेयसी ब्रह्मादिभिरपि प्रशस्यतरा चेत्यर्थः ॥ ८॥
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला |
अतीति । अत्यायासकराणि बहुसाधनपरिश्रमपूर्वक मनुष्ठेयानि कर्मणां पटलानि नित्यनैमित्तिकप्रायश्चित्तोपासना रूप बहुविधकर्मसमूहान् आचर्य अनुष्ठाय