पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् -- २]
१९
भगवद्भक्त्युत्पत्त्यादिवर्णनम् ।

 एवं त्रयोदशभिः क्ष्लोकैरध्यायत्रयोक्तमुपास्यं भगवद्रूपं वर्णितम् । सम्प्रति सेवासाधनस्य भगवद्भक्तेरुत्पत्तिं दर्शयति-----

एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
 त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं
 व्यासिञ्चत्यपि शीतबाप्पविसरैरानन्दमूर्छोद्भवैः ॥ ६ ॥

 एवमिति। एवम्भूता पूर्वोक्ता या मनोज्ञता सौभाग्यं, सैव नवसुधानिप्यन्दः प्रतिनवमधुद्रवः, तस्य सन्दोहनं वर्षकं परचिद्रसायनमयं परब्रह्ममयं चेतोहरं स्मरतां पुनःपुनः स्मारकं त्वद्रूपं शृण्वतामिति । अयमभिप्रायः --- यदृच्छया त्वत्कथायां जातश्रद्धस्य पुंसः कथाप्रसङ्गे सति श्रोत्रद्वारा त्वद्रूपं हृदयदेशमागत्यास्य सकलसन्तापं शमयतीति । तत्प्रकारमाह - सद्य इति । सघो झटिति मतिं प्रेरयते आकर्षति; विषयेभ्यो मति बलादाकृष्य स्वस्मिन् सन्निधापयति । मदयते आनन्दविवशतामापादयति । किञ्च, अङ्गकम् अङ्गं रोमाञ्चयति । अपिच, आनन्दमूर्छोद्भवैः त्वद्रूपानुभवानन्दस्य मूर्छा वृद्धिः, तत्सकाशादुद्भवो येषां तैः शीतैर्बाष्पविसरैः अश्रुप्रसरैर्यासिञ्चति । अनेन चेश्वरे प्रेमप्रकर्षणाहैतुकेन सकलेन्द्रियाणां वृत्तिः प्रेमलक्षणा भक्तिः, सा च त्वत्कथाश्रवणनामकीर्तनादिलक्षणया साधनभक्त्योत्पद्यत इत्यप्युक्तं भवति ॥ ६॥

 अनन्तरं भक्तेरुत्कर्षं वर्णयति[१] चतुर्भिः---

एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात
 कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
 भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभः ! ॥ ७ ॥

 एवमिति । स प्रह्लादादिभिरप्यङ्गीकृतः भक्तिरित्यभिहितो योगो मोक्षोपायः एवम्भूततया उक्तप्रकारतयेति । यः कथाश्रवणादिनायत्नेनोत्पद्यते, उत्पन्ने सति च (?) हृदयमानन्दयति, तादृशतयेत्यर्थः । कर्मज्ञानमयात् कर्ममयाद् ज्ञानमयाच्च योग


  1. 'ति। ए' क. पाठः.'ति एवम्भूततयेति च' ख. पाठः.