तदिति । तदेव तादृक् तत्सदृशं यस्य तत् तत्तादृग्, अनुपममित्यर्थः । तादृशमाधुर्ययुक्त आत्मा स्वरूपं यस्य तत् तब वपुः सम्प्राप्य वक्षस्यधिवासं लब्ध्वा सा देवी महालक्ष्मीः स्वभक्तेष्वपि सम्पन्मयी धनधान्यादिरूपिणी भूत्वा चिरतरं चिरकालं नास्ते चञ्चलैव भवति । अत्र हेतुमाह - परमोत्सुकेति, त्वद्वपुः- सौभाग्यातिशयेनापहृतहृदयतयेतरत्र गन्तुमशक्यत्वादित्यर्थः । तेन यस्मादेवं तस्माद् हे अच्युत! विभो ! अस्यास्तव महिष्याः त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् त्वद्रूपस्य मानोज्ञके सौभाग्ये यत् प्रेम्णः स्थैर्य तन्मयात् तद्रूपाद् अचापलस्य चापल्याभावस्य बलादेव चापल्यवार्ता [१]चपलेयमिति वार्ता दुष्कीर्तिरुदभूद् उद्भूता। कष्टं बतेति खेदे । गुण एव दोषहेतुर्जात इति खेदहेतुः । किञ्च [२], त्वत्सौभाग्यातिशयेनोद्भूता त्वत्प्रियतमाया दुष्कीर्तिः त्वामपि स्पृशतीति मम खेद इति भावः ॥
ननु अस्याः सेवकजनसेवाकादाचित्कतया चापल्यं जातं, किमत्र मया कर्तव्यमित्याशङ्कां परिहरति----
लक्ष्मीस्तावकरामणीयकहतैवयं परेष्वस्थिरे- |
लक्ष्मीरिति । इयं लक्ष्मीः तावकं [३] त्वदीयं यद् रामणीयकं सौभाग्यं, तेन हृतैवापहृतहृदयतयैव परेषु त्वदन्येषु स्वभक्तेप्वप्यस्थिरा चपलेत्यस्मिन्नर्थे नैतिह्यमात्रं प्रमाणं, किन्तु अन्यत् प्रमाणमनुमानमप्यधुना वक्ष्यामि[४] । पूर्वं लक्ष्म्या उद्भूतया चापल्यवार्तया त्वत्सौभाग्यापहृततयेयं परेप्वस्थिरेत्ययमर्थोऽनुमितः, तत्र च त्वया सेवकजनसेवाकादाचित्कत्वमुपाधिः शङ्कितः, अतोऽन्यदनुमानान्तरं वक्ष्यामीत्यर्थः । प्रयोगश्च–लक्ष्मीस्त्वत्सौभाग्यापहृततया परेप्वस्थिरा, त्वद्ध्यानगुणानुकीर्तनरसासक्तेषु त्वद्भक्तेषु प्रस्तुतत्वच्चरितद्त्तादरतया स्थिरवासत्वाद्, या एवं, ता एवं, यथा त्वद्ध्यानगुणानुकीर्तनरसासक्तेषु त्वद्भक्तेषु दयितप्रस्तावदत्तादरतया स्थिरवासा गोप्यः त्वत्सौभाग्यापहृत[५]हृदयतया परेषु स्वभर्तृष्वप्यस्थिरा इति । क्ष्लोकश्च व्याख्यातप्रायः ॥ ५ ॥