तभाग्याः जन्मजन्मान्तरार्जितपुण्यसञ्चयेनाधिगतभक्तिज्ञानमार्गाः चेतना जीवाः उच्चैरारमन्ति अतिशयेन मोदन्ते । चात्माराम ए[१]व, चस्त्वर्थः, त्वं तु त्वय्येव रमसे, तव चान्येषां च त्वमेव निरतिशयसुखभूत इत्यर्थः । इति अतो हेतोः अतुलानां लोकोत्तराणां गुणानामाधार ! आश्रयभूत ! हे शौरे ! श्रीकृष्ण ! ते तुभ्यं नमः नमस्करोमीत्यर्थः ॥ ९ ॥
षड्गुणाश्रयताया अप्यसाधारणतामाह---
ऐश्वर्यं शङ्करादीश्वराविनियमनं विश्वतेजोहराणां |
ऐश्वर्यमिति । हे वातागारवासिन् ! मुरहर! ते तवैश्वर्य शङ्करादीनामीश्वराणां विनियमनं तत्तदधिकारप्रवर्तकम् । किञ्च, तव वीर्यं विश्वेषां सर्वेषां तेजः पराक्रमं हरन्तीति विश्वतेजोहराः श्रीशङ्करादयः, तेषां तेजः प्रभावं संहर्तुं शीलमस्येति तथा । वक्ष्यति च 'मुहुस्तावच्छक्रम्' (दश.८२.क्ष्लो. ९) इत्यादि । तव यशोऽपि विमलं पापशोधकम् । निस्पृहैर्मुक्तैरप्युपगीतं, त्वच्चरिताकृष्टचेतस्तया तैर्वर्णितमित्यर्थः । श्रीश्च सदा अङ्गासङ्गा तव वक्षःस्थलमाश्रित्यैवास्ते । अखिलविदसीति । अखिलं स्वमात्मानं स्वमायां तत्कार्यं च वेत्तीत्यखिलविदसि[२] त्वम् । अन्ये त्वां तत्त्वतो न जानन्तीति भावः । क्वापि विषये[३] । ते सङ्गस्य वार्तापि कथापि न श्रूयत इत्यर्थः । तत् तस्मात्, यस्मादैश्वर्ययशः श्रीवीर्यज्ञानासङ्गतानां भगवच्छब्दवाच्यानां त्वय्यतिशयेन वृत्तिस्तस्मादित्यर्थः । भगवच्छब्दस्य मुख्याश्रयो वाच्यार्थो भवसि, अन्येषु भगवच्छब्दस्य लाक्षणिकी वृत्तिरित्यर्थः ॥ १० ॥
इति भगवन्महिमानुवर्णनं प्रथमं दशकम्