पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[स्कन्धः - १
नारायणीये.

स्वकर्मभिर्देवान् प्रसाद्य स्वर्गं गतानां पुरत एव सन्निधत्ते । किञ्च, अजस्रम् इहा[१]मुत्र च तैर्भक्तैः अनभ्यर्थितान् कामान् अभीष्टान् अर्थान् पुरुषार्थान् वितरति ददाति। अन्यस्त्वनभ्यर्थितान् न ददाति, न च सर्वान्[२] कामान्, न चाजस्रं, किन्तु अमुत्रैवाभ्यर्थितेषु कांश्चिदेवार्थान् ददाति । अपिच अकामनया ये सेवन्ते, तेभ्यः परमानन्दसान्द्रां गतिं मोक्षं च ददाति । अन्यस्तु सकामेभ्यो[३]ऽकामेभ्यो वा मोक्षं न ददाति । एवं निश्शेषलभ्यः सकलजीवनिवहैः प्राप्यस्त्वदात्मकः पारिजातः निरवधिकफलः अपरिच्छिन्नमोक्षाख्यफलप्रदः । अन्यस्तु परिच्छिन्नफलप्रदः । एवं त्वदात्मके पारिजाते तिष्ठति अयमर्थिव्रजः कामिसमूहः व्यर्थं वृथैव क्षुद्रम् असारं तं मुधा पारिजातशब्दवाच्यं शक्रवाटीद्रुमम् इन्द्रोद्यानवृक्षम् अभिलषति बहुक्लेशेन प्राप्तुमिच्छतीत्यर्थः ॥ ८ ॥

 ननु ब्रह्मरुद्रादयोऽपीश्वरत्वसाम्याद् भक्ताभीष्टफलदाः । अतस्तेऽपि सेव्या इत्याशङ्कय भगवतस्तेभ्यो विशेषमाह ---

कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
 दैश्वर्यादीशतेऽन्ये जगति प[४]रजने स्वात्मनोऽपीश्वरस्त्वम् ।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या-
 स्त्वं चात्माराम एवेत्वतुलगुणगणाधार! शौरे ! नमस्ते ॥ ९ ॥

 कारुण्यादिति । परे ब्रह्मादयः । कारुण्याद् भक्तवत्सलतया । अन्यं मोक्षाव्यतिरिक्तं कामं वरं ददति । त्वं विशेषाद् विशिष्टाद् ब्रह्माद्यतिशयितात् कारुण्यात् स्वात्मदः स्वात्मानं स्वरूपं मोक्षमपि ददासीत्यर्थः । किञ्च, अन्ये ब्रह्मादयः ऐश्वर्याद् जगति अस्मिन् प्रपञ्चे परजने स्वव्यतिरिक्तेषु स्थिरचरेष्वेव ईशते निग्रहीतुमनुग्रहीतुं वा शक्ता भवन्ति । त्वं तु स्वात्मनः स्वरूपस्य ब्रह्मणोऽपीश्वरः । स्वात्मानमेव जीवरूपेण संसारार्णवे निक्षिप्य निग्रहीतुं, तत्समकालमेव स्वानन्दानुभवपदे (सं)स्थाप्यानुग्रहीतुमपि शक्तो भवसीत्यर्थः । ननु सेवकानां स्वात्मदाने किं फलमित्याशङ्कय भगवतः स्वस्थैव फलरूपतां दर्शयति – त्वयीति । त्वायि[५] ब्रह्मणि। स्फी-


  1. 'त्रापि तै' क. पाठः.
  2. 'नू न' ख. पाठः.
  3. 'भ्य एव । न मोक्षं द' ख. पाठः.
  4. 'रि' क. पाठः.
  5. 'यि स्फी' क. पाठः.