नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुक्ष्चिद्रसार्द्रे |
कष्टेति । हे अजित! मायापारतन्त्र्यरहित ! ते तव सृष्टिचेष्टा कष्टा । कुत इत्यत आह - जीवभाजां बहुतरभवखेदावहोति । अत्र जीवशब्देन लिङ्गशरीरमुच्यते, तद् भजन्तीति जीवभा[१]जो जीवा एव, तेषाम् । भवखेदा जननमरणदुःखानि, तानावहतीति तथा । इत्येवं मया मूढमतिना पूर्वमालोचितं चिन्तितम् । तत्तु तथा नेत्याह -नैवमधाभिजान इति । इदानीं त्वद्रूपास्वादनव्यापृते मनसि महानुपकार एवास्मापकमिति निश्चिनोमीत्यर्थः । निश्चितमाह---- नो चेदिति। यदि त्वं त्वय्यनुशयितान् जीवान् तद्भोग्यं प्रपञ्चं च न सृजसि, तर्हि जीवाः कथं केन प्रकारेण चिद्रसाईं चिदानन्दामृतद्रवेणान्तर्बहिश्च व्याप्तं त्वद्वपुः नेत्रैः श्रोत्रैश्च पीत्वा तद्दर्शनतदुपासनतत्कथाश्रवणद्वारेण हृदये कृत्वा परमरससुधाम्भोधिपूरे ९परमानन्दामृताम्भोधौ रमेरन् उन्मज्जननिमज्जनाभ्युक्षणास्वादनादिक्रियां कुर्युरित्यर्थः ॥ ७ ॥
एवं भगवतः सौन्द[२]र्यगुणस्य लोकोत्तरत्वमुक्त्वा फलदातृत्वस्यापि लोकोत्तरत्वं वर्णयति --
प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । |
नम्राणामिति । लोके हि पारिजातोऽभीष्टफल[३]द इति भगवतस्तदतिशायिगुणानाह –– हे हरे ! त्वं पारिजातः त्वदात्मकः कल्पवृक्षः नम्राणां नमस्कारमात्रेणापि भजतां पुरः पुरतः सततमपि सन्निधत्ते वरदित्सया प्रादुर्भवति । अन्यस्तु [४] कल्पवृक्षः स्वयं न सन्निधत्ते, न च नमस्कारमात्रेण, न च सततं[५], किन्तु
* ख-पुस्तके तु 'कारुण्याद्' इत्यादिनवमक्ष्लोकोऽष्टमत्वेन,'नम्राणाम्' इत्याद्यष्टमक्ष्लोको नवमत्वेन च व्याख्यायते ।