शस्यातिस्वच्छतया चैतन्यपरिच्छेदकत्वाभावात् तन्मये लीलाविग्रहेऽहंममाभिमानासम्भवात् तन्निबन्धनस्य संसारस्यापि भगवत्यसम्भव एवेति । ननु शरीरसम्बन्धे समानेऽप्येकः संसरत्यन्यः संसारयतीति कुत एतद् वैषम्यमिति शङ्कां परिहरन् भगवन्तं सम्बोधयति – स्वमहिमविभवाकुण्ठेति । स्वस्य महिमा योगैश्वर्ये, स एव विभवः शक्तिः, तेनाकुण्ठ: अप्रतिहतचिच्छक्तिरित्यर्थः । अयमाशयः- जीवो मायापरतन्त्रः संसरति, ईश्वरस्तु स्वाधीनया माययाङ्गीकृतलीलाविग्रहः सन् सर्गादिलीलाः[१] करोतीति महदिदं वैषम्यम् ॥ ५ ॥
सम्प्रति भगवन्मूर्तेः सौन्दर्यं वर्णयति द्वाभ्यां--
तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं |
तदिति। हे मारुतागारनाथ! ते तत् शुद्धसत्त्वमयं वपुः अनुकलये स्मरामीत्यर्थः । प्रत्यग्रेति सजलजलधरवत् प्रतिनवकलायकुसुमवच्चातिमनोहरं, श्यामल[२]मित्यर्थः । लावण्यस्यैकसारमिति लावण्यद्रव्यस्य केवलसारांशेनैव विरचितमित्यर्थः । सुकृतिजनदृशां पूर्णपुण्यावतारमिति । अत्र फलाभिसन्धिरहितानि विहितसकलकर्माणि सुकृतान्युच्यन्ते, तदनुष्ठातारः सुकृतिजनाः, तेषां दृशां पूर्णस्य निश्शेषस्य पुण्यस्यावतारः (तं), सुकृतिजनानां चक्षुरिन्द्रियैरनुभवनीयं[३] पुण्यपूरमेव भगवन्मूर्त्याकारेण परिणतमित्यर्थः । अपिच लक्ष्म्याः प्रेमप्रतिप्नत्तिविस्रम्भाद्येकविषयतया निश्शङ्कलीलानिलयनम् । किञ्च सञ्चिन्तकानाम् उपासकानाम् अन्तः हृदये अमृतस्यन्दसन्दोहं ब्रह्मानन्दामृतद्रवझरीं सिञ्चद्, उपासकानां हृदयं ब्रह्मानन्दामृतद्रवेणाप्लाव्य सकलसन्तापं शमयतीत्यर्थः ॥ ६ ॥
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा- |