युगाचार्य - विवेकानन्दः प्रचारायैव तस्य धर्ममहासम्मेलनस्य आयोजनाऽजायत, एवं दैवप्रेरित एव स्वामी विवेकानन्दः समुद्रपारं गत्वा अमेरिकामवाप । १९९ महासभायाः साधारणसमितेः सभापतिः रेवरेंड बेरोजमहो- दयोऽपि जगाद – “स्वामी विवेकानन्दः निजश्रोतृणामुपरि अत्याश्चर्य प्रभावं निहितवान् ।” - समाचारपत्राणामेतादृशानि शतश उद्धरणान्युदाहर्तुं शक्यन्ते । किन्तु एतं विजयं स्वामी केन भावेन गृहीतवान् ? उपधानमार्द्र तं बहुसम्मानितं भारतीयसंन्यासिनम् अमेरिकाया एकः सम्पन्नः पुरुषः सादरं निजभवनमनयत् । सेवाया आदरस्य तथा ऐश्वर्यस्य प्राचुर्यं स्वामिनश्चित्तं व्यथितं चकार । इन्द्रपुरीसहशे सौधे दुग्ध फेन- तुल्यशय्यायां शयित्वा स रोदितुं प्रावर्तत । अश्रुभिः बभूव । स मनोवेदनया अधीरो भूत्वा तले प्रपत्य विलपितुमुपा- क्रमत – “हन्त ! मम दुःखिनि भारतभूमे ! तव तु तादृशी दुर्दशा, एवं मम कृते ईदृशः सुखभोगः । अहं भोगमैश्वर्य तथा नाम यशो गृहीत्वा किं करिष्यामि ?..." स समस्तां रजनीं रोदं रोदमेव व्यत्य- यापयत् । स्वामी विवेकानन्दः निजनाम-यशसोः कृते पाश्चात्त्यदेश- भ्रमणार्थं न ययौ । - धर्ममहासभायां समाप्तायामेव स्वामी अनेकेषु स्थानेषु भाषण- दानार्थम् आमन्त्रितो बभूव । अनेके विशिष्टाः नागरिकाः तं निज- निजं सदनमानीय विविधा आलोचनासभाः प्राबध्नन् । तस्मिन् समये एका व्याख्यान समितिः तं 'जनप्रियवक्ता संयुक्तराष्ट्रस्य व्याख्यान-समितिः विभिन्नेषु स्थानेषु भाषणदानार्थम् आजुहाव । अमेरिकाजनतथा परि- चितो भवितुमेष अवसर इति मत्वा स्वामी सम्मतोऽभूत् । तस्याः समितेः प्रबन्धानुसारं संयुक्त राष्ट्रस्य एकाञ्चलात् अन्याञ्चलपर्यन्तं स भाषणं प्रददौ । सर्वत्रैव स सविशेषम् अभिनन्दितः तथा सम्मानित- श्रासीत् ।
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०९
दिखावट