युगाचार्य- विवेकानन्दः सङ्गतिर्वभूव । स्वल्पकैरेव दिनैः स उच्चैः शिक्षितो राजा स्वामिनि श्रद्धासम्पन्नो भूत्वा तस्य शिष्यः संवृत्त: । स्वामी राजसम्मानं प्राप्तुं तत्र गतो नाभूत् । स वर्तमानभारतस्य समस्याम् एवं तत्समाधानं चाभिलक्ष्य राज्ञो दृष्टिमकार्षीत् । जनसाधारणस्योन्नयनभारं राज्ञि विन्यस्तवान् | रामनादराज: स्वामिनः शक्तिविषये एतावदधिकं विश्वस्त आसीत् यत् स शिकागोधर्ममहासभायां योगदानार्थं स्वामिने प्रार्थना- पूर्वकं धनसहायतादानस्यापि वचनं ददौ । १६३ तत्सर्वं भविष्यद्गर्भे सञ्चितमतिष्ठत् | स्वामी रामेश्वराभिमुख मग्रसरो बभूव । रामायणे लिखितस्य श्रीरामचन्द्रस्य पुण्यस्मृतियुक्तस्य रामेश्वर तीर्थस्य दर्शनं कृत्वा स सविशेषमानन्दितोऽभवत् । विशालं मन्दिरं, यात्रिणां कलकल घण्टातालादिभि: महताऽऽडम्बरेण पूजनम् सर्वं सोऽद्राक्षोत्, किन्तु तस्य चिन्तायां न्यूनता नायाता | भारतस्य समुन्नतिः, भारतवासिनां सेवा - तदीयजीवनस्य ध्येयमवर्तत | अशान्तेः भारं वहन् भारतस्यान्तिमप्रान्ते स कन्याकुमारी मन्दिराभिमुखं जगाम । निष्किञ्चनपरित्राजकरूपेण स मन्दिरे उपस्थित आसीत् । देवीदर्शनेन तदोयमन्तरं पुलकितमजायत । माता प्रसन्नाऽभूदिव, स भूमौ मस्तकं निधाय देव्याश्चरणौ अवन्दत । एकेनानिर्वचनीयेनानन्देन तस्य चित्तं सम्भृतं संवृत्तम् । मात। तदन्तरस्य निखिलं भारं लघु चकारेव । - तुपारशिखरात् हिमालयात् स भारतस्य मृत्तिकां संस्पृशन् सर्वस्माद् दक्षिणं प्रान्तमवतरन् आगमत् । अखण्डे भारते सनातन वैदिकधर्मस्य विचारधारा समन्ततः लुप्तप्राया यदभवत् तत् सोऽजानात् । अनेकदेव- देवीनां तथा मन्दिराणां दर्शनमकार्षीत्, बहुभिः साधु-महात्मभिः परिचय प्राप, राजप्रासादे उटजे च व्यवसत् तथा भूयसः स्तुति-निन्दा- तिरस्कारान् असहत, क्षत्पिपासापरिक्षीणः पादपतले प्रपतितो न्यवसत्- सर्वमिदं स निर्विकारभावेन स्वात्मसादकरोत् । सर्वत्रैव अखण्डभारतस्य प्राणस्पन्दनमन्वभवत् । एवं सर्वत्र आर्यपणां शाश्वतीं वाणीं शश्राव
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७३
दिखावट