युगाचार्य - विवेकानन्दः न तावदहं परावर्तिष्ये।” इयं स्वामिनो दाम्भिकी उक्तिर्नास्ति, तद्- भ्यन्तरे यस्य ऋषेर्निवासस्तस्यैवेयं कल्याणवाणी । - अयोध्यामुपस्थाय गङ्गाधरेण सह स हिमालयाभिमुखं चचाल - काठगोदामतः नैनीतालस्यालमोड़ायाश्च पथा पार्श्वे एकं पणमपि नास्ति | कुत्र भोजनम्, कुत्र रात्रियापनम्, कस्यापि किमपि निर्धारणं नासीत् । द्वावपि असीमयात्रापथेऽग्रेसरन्तौ अगच्छताम् । दिनत्रयं दिवसचतुष्टयं वा गमनानन्तरं क्लान्तो भूत्वा स्वामी एकस्य विशाल- वृक्षस्य निम्नभागे आश्रयमगृह्णात् । पार्श्वे एव वेगवती पर्वतीया नदी वहन्ती गच्छति । नद्याः जले स्नात्वा स्वामी तद्वृक्षतले ध्यानाय समुपविष्टः । स च गम्भीरध्याने मन्नो बभूव । ध्यानमग्न एव स प्रोवाच - "गङ्गाधर ! अद्य एतवृक्षस्य तले मम जीवनस्यैक: अमूल्य- क्षण उपस्थितो वर्तते । एतेन एकस्या महत्या समस्यायाः समाधान- मभवत् ।” ु तेन नान्यत् किमपि प्रोक्तम् । किन्तु तस्य मुखमण्डलेऽनुपमाया: स्वर्गीयायाः ज्योतिराविरासीत् | आभायास्तथा ब्रह्मानन्दस्य च - अखण्डानन्दः अनन्तरं स्वामिनो नोटपुस्तिकामुद्घाट्य ददर्श । तत्र लिखितमस्ति — "मयाऽद्य द्रब्रह्माण्डे विराट्ब्रह्माण्डे चैकात्मकताया अनुभवः कृतः । ब्रह्माण्डे यत्किंचिदस्ति सर्वमेतत्क्षुद्रशरीराभ्यन्तरे वर्तते । मयाऽनुभूतम् – प्रत्येक परमाणोरभ्यन्तरे विराट् विश्वब्रह्माण्ड - विद्यते । * ,
- स्वामिनो नोट-पुस्तिकाया मेतदनुभूतिप्रसंगेऽन्यत् यत् किमपि लिखित-
मासीत् तस्य अनुवाद एवंविधः – “आदौ शब्दः ( शब्दब्रह्म नादी वा ) आसीत् । क्षुद्रब्रह्मांडम् ( Microcosm ) विराट् ब्रह्माण्डञ्च ( Mac- rocosm ) एकेनैव नियमेन रचितमास्ते । शरीरेऽस्मिन्यथा व्यष्टिः जीवा- त्माऽऽच्छादितो वर्तते, तथैव दृश्यमानजगति जड़प्रकृतिं द्वारीकृत्य समाच्छा"