युगाचार्य- विवेकानन्दः भ्रांतदृष्टौ भविष्यविश्वमानवताया नवः क्षितिजः प्रतिभासितोऽभूत् । तस्याभ्यन्तरे तद् वैदिकं मण्डितं देवदेवीनां मैत्रीस्वाधीनताश्च यदीयसभ्यतायाः भारतम् - पौराणिकेतिवृत्तकिंवदन्तीमहिम- स्थानम्- द्रविड़ार्य सभ्यतयोर्मेलनभूमिः, साम्य- मर्मवाणीस्वरूपाः, यच्च आर्य- भारतं प्रागैतिहासिकयुगादेव जातिवर्णभेदमनादृत्य सर्वदेशोत्पन्नेभ्यः सर्वधर्मावलम्बिमानवेभ्यः स्वकीये वक्षसि आश्रयमदात् - तदेव विश्वमानवताया जन्मभूमिस्थानं भारतं जागृतिं गतमिवाभवत् । १०४ - विहीनाः सन्ति । अत्रोभयत्रापि निस्सन्देह मिदं वक्तुं शक्यते यदाद्या व्यक्तयो वरणीया विद्यन्ते । यतस्तेषां समुन्नतेरस्ति सम्भावना । जातीय- संस्कृतावास्ते तेषां विश्वासः । तस्या अवलम्बनेन ते जीवितुं शक्ष्यन्ति । परन्तु द्वितीयानां व्यक्तीनां विनाशोऽवश्यम्भावी । आध्यात्मिकतां विसृज्य यदि यूयं जडाश्रयपाश्चाच्यसभ्यताभिमुखमग्रेस रिष्यथ, तदा तृतीयपुरुषानन्तरमेतज्जाति- विलोपोऽनिवार्य एव । जातीयो मेरुदण्डो भग्नः भविष्यति, तत्प्रासादस्याधारी नंक्ष्यति च, फलतः सामूहिको ध्वंसोऽवश्यम्भावी सम्पत्स्यते ।” सांस्कृतिक- दृष्टिभङ्गिमत्वप्रसारविषये तेनोक्तम् – “भारतं बाह्यसंसारं परित्यज्य न संसर्तु- मर्हति । परमिदानीं यावत् निर्बोधवदस्माभिविंचारितम् यत् तादृशं भवितुं शक्नोति । अस्माकं सहस्रवर्षव्यापि दासत्वं तस्या बुद्धिहीनताया दण्डस्वरूपं विद्यते। दण्डस्यैतस्य भोगोऽस्माभिः कृतः । अग्रे नैतदनुष्ठं यम् । भारतवासिनो भारताबहिर्न गमिष्यन्तीति धारणा नितरां बाल्यविजृम्भिता । यूयं यावदधिकं भारताद् बहिर्गत्या भूतल निवासिनीभिर्जातिभिः साकं मिलिप्यथ तावदेवाधिकं युष्माकं देशस्य कल्याणं भविष्यति । भारतसमुन्नतिबाधकेषु विघ्नेष्वयमप्येको विघ्नो वर्त्तते यदस्माकमियं धारणा वर्तते यद् वयं भूमण्डलस्थाभ्योऽन्यजातिभ्यः श्रेष्ठाः स्मः । स्मर्त्तव्यमेतद् यत् प्रत्येकजातितः शिक्षाग्रहणयोग्या अनेके महत्त्वपूर्णा विषयाः सन्ति । अतोऽस्माभिः सर्वजातिभ्य उत्तमोत्तमगुणानां शिक्षाग्रहणाय सदैव प्रस्तुतैर्भवितव्यम् । अस्माकं श्रेष्ठविधानदाता मनुवादीत् - “नीचादप्युत्तमा विद्या" ग्राह्या । अतो मनोर्यथार्थवंशधरा इव वयं तदीय-
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११४
दिखावट