युगाचार्य-विवेकानन्दः भवनाथनामैको युवा भक्तो रुदन्नागत्य श्रीरामकृष्णमुक्तवान् "महाशय, नरेन्द्र एवं भविष्यति इति स्वप्नेऽपि न केनापि चिन्तित मासीत् ।” O ६६ श्रीरामकृष्णोऽस्थिरतां प्रपेदे । तेनोत्तेजितस्वरेण प्रोक्तम – “शान्तो भव मूढ़, जगज्जनन्या प्रोक्तम्- 'नरेन्द्रः कदापि तादृशो भवितु न शक्नोति ।' मम समीपे पुनरेतादृशकथने नाहं तव मुखं द्रक्ष्यामि ।” नरेन्द्रनाथः कियद्गम्भीरया मनोवेदनया भगवदस्तित्व विषये सन्देहं प्रकटितवान्, इत्यत्र विशेषावधानदानमावश्यकम् । स च बाल्यादेवेश्वरविश्वासी, विशेषत: श्रीरामकृष्ण-सदृशदेव मानवसम्पर्क - मधिगत्य तदीयो विश्वासोऽतिदृढतां गतः । स्वीयजीवनेऽपि अनेका न्यतीन्द्रियदर्शनानि प्रापं प्रापं धन्यो बभूव । किमसौ “ईश्वरास्तित्व विषये सन्देहं प्रकटयितुमशक्ष्यत् ? वस्तुत एवं नाम्ति | प्रकारान्तरेण तदीयं मनः क्षुब्धमभवत् । स व्यचारयद् यद् "ईश्वरोऽवश्यमेव वर्तते । तदधिगमोपायोऽपि नूनं विद्यते। अन्यथा जीवनस्य किं मूल्यम् ? जीवने दुःखकष्टानि यावन्त्यागच्छेयुः, परन्तु ईश्वराधिगतेः पन्था अन्वि- व्याविष्करणीय एव ।”* किन्तु सांसारिकैर्दुःखकष्ठैर्मुक्तेरधिगमाय नैव तेन कोऽप्युपायो निःसारितः । ग्रीष्मतुरस्यां विभ्रान्तौ व्यत्यगच्छत् । स च सततमेव
- दुःखभस्मस्तूपादिव भाविन आर्तबन्धोविवेकानन्दस्य जनुरभूत् । श्रीराम-
कृष्णेन प्रोक्तम्–“नरेन्द्रो यस्मिन् दिने दुःखदारिद्रयसंस्पर्शे समागमिष्यति, तस्मिन् दिने तस्य चरित्रदम्भः असीमकरुणायां विगलितो भविष्यति । तस्य:- पार आत्मविश्वासः परेषां हताशभयभीतचित्तषु साहसं विश्वासं च प्रत्यर्पयितुं यन्त्रस्वरूपतां प्रपत्स्यते । तस्य कर्मस्वाधीनत्वं बलवदात्मजये प्रतिष्ठितं सत् परेषां कृतेऽहंकृतिमुक्तं प्रकाशं यथार्थरूपेण दर्शयिष्यति ।” श्रीरामकृष्णस्य वचनमिदमक्षरशः सत्यं प्रमाणितमभूत् सांसारिकी दुःखकष्टज्वाला तं विश्वप्रेमिक- विवेकानन्दरूपेण परिणतमकार्षीत् ।