युगाचार्य- विवेकानन्दः _6 मम भ्रान्तिर्नास्ति, मया सत्यमुत्तरितम्” तथा तथा ताड़न- , मध्यवर्धत । स च मौनमाश्रयन् ताड़नं सहमान: शिरो नमयन् तस्थौ । किञ्चित्कालानन्तरं शिक्षक स्त्रीयां भ्रान्तिमवधार्य नरेन्द्रनाथतः क्षमां याचितवान् । बाल्यादेव नरेन्द्रनाथ: किं भयमिति न जानीते स्म । भूतब्रह्म- राक्षमादीनां भयं विहस्यैवा भयं विहस्यैवापासारयत् । एतादृशं भयं प्रदर्य कस्माच्चन कार्यात् तस्य निवारणं न सम्भवम् । 'इदमेतस्य वचनम्' एतावतैव कुत्रापि विषये विश्वासस्तस्य स्वभावविपरीतोऽभवत् । बाल्यकालादेव कस्यापि विषयस्य प्रत्यक्ष- प्रमाणप्राप्तिमन्तरेण विश्वासमसौ नाकरोत् । नरेन्द्रनाथः क्रोड़ने कूर्दने च कुशलोऽभूत् । पाकक्रियायामपि स नैपुण्यमध्यगच्छत् । अस्मिन्नव वयस्यसौ प्रतिवेशिनो बालकानादाय संगीतस्य, अभिनयस्य च दलं समस्थापयत् । मल्लयुद्धस्य व्यायामस्य च शालां निरमापयत् | अन्यान्यपि कार्यान्तराणि चाकरोत् । तस्मिन्नेतावती शक्तिरासीद् यत् तां संरक्षितुं स्थानमिव नोपल- भ्यते स्म, प्रतिक्षणं किञ्चित् करणीयमेव । प्राचीनाः साधनसामग्रीः समादाय रथो निर्मितः । तदानीं प्रथमतः काले कलिकत्तायां गैसवर्त्तिका प्रचलिताऽभवत् । नरेन्द्रनाथः सङ्गिनः समादाय गैसनिर्माणकार्ये संलग्नो बभूव । स गुलिकादण्डक्क्रीडायां, धावनोच्छलनकूर्दनेषु, मुष्टिकायुद्धे दण्डकरवालचालनक्रियायां, सन्तरणादिषु च प्रथमस्थानमध्यगच्छत् । स चैको वरेण्यः शिल्पी च बभूव । संन्यासग्रहणसमीहा तस्मिन् स्वाभाविकी समभूत् । बाल्यादेवासौ संन्यासग्रहणस्वप्नमपश्यत् । सगर्वमसौ स्वमित्राण्यवोचत् - " मम पितामहः संन्यासी आसीत् । ज्ञायते युष्याभिः ? मयाऽपि
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७
दिखावट