पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

POR २ सप्तमवर्षावस्थायां यदा नरेन्द्रनाथो विद्यासागरमहाशयद्वारा कलिकत्तायां प्रतिष्ठिते “मेट्रोपोलिटन इन्ष्टिट्यूशन” नामनि विद्यालये प्रवेशितस्तदानीमसौ आङ्गलभाषाध्यायनाय प्रस्तुतो नाभवत् – “इयं विदेशीया भाषां, इमां कथं पठिष्यामि, एतदपेक्षया स्वभाषायाः शिक्षणमेव श्रेयस्करम्" इत्येवासीत् तस्य विचार: बालकस्य । मनसि वैदेशिक भाषा प्रत्येतादृशः स्वाभाविको विरागः श्रद्धाऽभावश्च कथमासीदिति निर्णयो नितरां कठिनः । प्रारम्भे सातिशयेन बोधनेन कथनेनापि आङ्गलीं वाणीमध्ये तु तस्य प्रस्तुतीकरणं सम्भवं नाभूत् । एवमेव बहवो मासा व्यत्यगच्छन् । अनन्तरं च तन्मनोभावे परिवर्त्तितेऽसौ महतोत्साहेन तामपठत् । श्रयते यत् तेन प्रारम्भे स्व- मातुरेव सकाशादाङ्गली वर्णमाला शिक्षिता ।... - " Apprete नरेन्द्रनाथस्य दुर्दमनीयशक्तेर्विकासः केवलं विद्यालयपाठ्य- पुस्तकेष्वेव सीमाबद्धो नासीत् | तस्य चञ्चलतया उपद्रवेण बहुमुख- प्रतिभया च शिक्षका: सहाध्यायिनश्च समाकुलिता अभूवन् । तस्य स्मृतिशक्तिरेतादृशी प्रबलाऽऽसीत् यया विद्यालयीयपाठानां कण्ठस्थी- करणे स्वल्प एव समयो व्यतिगच्छति स्म, तस्य कृते अवशिष्टः समयः कथं यापनीय इत्येका समस्यैवासीत् । एकदिनस्यैषा घटना | शिक्षकमहाशयो भूगोलं पाठयन्नासीत् । शिक्षकों नरेन्द्रनाथं प्रश्नमेकमपृच्छत् । स तस्योत्तरमदात् । किन्तु शिक्षकस्यैषा धारणा बभूव, यदुत्तरं समीचीनं नारित | स च बालकमताडयत् । नरेन्द्रनाथोऽनेकशो यथा यथा प्रावोचद्