सामग्री पर जाएँ

पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
दशमः सर्गः ।

शतपत्रमिवामुष्य श्वेतमातपवारणम् ।
उद्धृतं चामरद्वन्द्वहंसदोलायिताञ्चलम् ॥ ८ ॥
रञ्जयामास भरतो रक्तामपि वसुन्धराम् ।
दुःषन्तोऽपि तथाभूतां कृतकृत्यः शकुन्तलाम् ॥ ९ ॥
एक: सत्राणि कर्माणि चकार भरतः स्वयम् ।
तान्येव बहुभिः सार्धं दुःषन्तस्तु चकार सः ॥ १० ॥
शक्त्या युक्तोऽथ भरतः प्रतापैर जयन्महीम् ।
स शकुन्तलया साकं दुःषन्तः []क्रतुभिर्दिवम् ॥ ११ ॥
तातः शास्त्रेण शास्योऽभूत् तातेन तनयो वशी ।
तेन पृथ्वीति तद्राज्यं ससोपानमिवाबभौ ॥ १२ ॥
परस्पराविरोधेन यथाकालानुरोधनम् ।
स मन्त्रिवर्गः संभूय तौ सिषेवे यथोचितम् ॥ १३ ॥
भरते स्थापिते राज्ये विद्विषस्तस्य तेजसा ।
यातास्ते दूरमाशासु तिग्मांशोरित्र कौशिकाः ॥ १४ ॥
शासनं युवराजस्य तस्य नूनं महीभुजः ।
अभ्यर्थ्य शिरसा श्लाघ्यं किरीटनिव लेभिरे ॥ १५ ॥
तस्य प्रतापदीप्तांशौ दीप्यमाने दिवानिशम् ।
नक्तञ्चरैरपि प्रायः स्खलितं न पदात्पदम् ॥ १६ ॥
लब्धप्रशमनोऽप्येष नीतिं नैव मुमोच सः ।
अद्भवृद्धिकरी सिद्धां स्वस्थः पथ्याशितामिव । १७ ॥
स प्रायुत नयं प्राज्ञः कालदेशावलङ्घयन् ।
चललक्षानुसारीव शरमोक्षं विचक्षणः ॥ १८ ॥


  1. 'प्रकृतिद्वयम्' ख. पाठः