सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ राजतरङ्गिणी

व्रजतस्तस्य धीरासीन्नियतं पञ्चषैदिनैः ।
पुनः संप्रानुयां राज्यं यदीन्द्रोपि भवेद्रिपुः ॥ १६५१ ॥
गर्भवास इव पौरुषे स्फुर-
न्कि न कर्म पुरुषश्चिकीर्षति ।
कर्मवायुरिव संस्पृशन्हठा-
न्मूढमेव कुरुते तु तं विधिः ॥ १६५२ ॥
तु
मातृभिर्दत्तपाथेयं भृत्यं नागेश्वराभिधम् ।
प्रतीक्षमाणश्चक्रे स रङ्गवाटान्तरस्थितिम् ॥ १६५३ ॥
शून्ये देवगृहे तत्र तिष्ठञ् श्रुत्वा तमागतम् |
स निर्ययौ तेन तस्मिन्निःशङ्कं प्रहृतं पुनः ॥ १६५४ ॥
तत्र प्रादुष्कृतद्रोहे क्षत्रधर्मादविच्युतः ।
राजपुत्रः स यच्चक्रे न तत्कस्याद्भुतावहम् ॥ १६५५ ॥
स सिंह इव संहारं कृत्वा युधि विरोधिनाम् ।
अस्त्राङ्गरागलिप्ताङ्गो वीरशय्यामभूषयत् ॥ १६५६ ॥
भ्रातास्य मातुलापत्यं विपेदे पद्मकाभिधः ।
खेलो लालितवञ्चैव संख्येसंख्यपराक्रमः ॥ १६५७ ।।
मठं सूर्यमतीदेव्याः शर्वर्यामुञ्चलोविशत् ।
भ्राताप्यस्य रणश्रान्तो लवणोत्सात्समाययौ । १६५८ ।।
हतं भोजं श्रुतवतोर्हर्षमात्रे स्थिते तयोः ।
मनस्युत्खातशूलेथिरेवैका पर्यशिष्यत ॥ १६५९ ।।
प्राप्तमप्राप्तवद्राज्यं तथापि प्रत्यभात्तयोः ।
प्रवासे विस्मृते राज्यसुखे लब्धे च कुत्रचित् ॥ १६६० ॥
प्राहे कुतश्चिदानीतो मुक्तेनान्विष्य तापसः |
प्रणम्य नृपतिं चक्रे स्वकुटीं तां निरर्गलाम् ॥ १६६१ ।।