सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

♥ राजतरङ्गिणी

भाव्यं कौलीनभीतेन येन भूमिभृता सता ।
तस्य मे दुःसहः कोयं सदाचारविपर्ययः ॥ २८ ॥
यत्र दारापहरणं राजैव कुरुते विशाम् ।
परः को नाम तत्रास्तु शासिता नीत्यतिक्रमे ॥ २९ ॥
विमृष्यन्निति भूपालो विस्मर्तुमभवत्क्षमः ।
न पद्धति साधुसेव्यां न च तां दीर्घलोचनाम् ॥ ३० ॥
तमथ प्रथितास्वास्थ्यं नेदीयोमरणं वणिक् ।
स जनाज्ज्ञातवृत्तान्तः सुजनो विजनेब्रवीत् ॥ ३१ ॥
इमामवस्थां प्राप्तोसि किं धर्मेण निरुध्यसे ।
न प्राणसंशये जन्तोरकृत्यं नाम किंचन ॥ ३२ ॥
यन्मतानि प्रतीक्ष्यन्ते विबुधैर्धर्मसंशये ।
तेषामपीडशे कृत्ये श्रूयते संयमव्ययः ॥ ३३ ॥
यशोनुरोधादुचितं नापि देहमुपेक्षितुम् ।
स्वकीर्तिर्न परासूनां कीर्णाकर्णरसायना ॥ ३४ ॥
मा भून्मदनुरोधस्ते त्वत्प्रियार्थ हि पार्थिव ।
प्राणा अपि न मे गण्या इन्द्रियार्थेषु का कथा ॥ ३५ ॥
एवमुक्तोपि नादत्से तां चेत्तत्सा सुरास्पदात् ।
गृह्यतां नर्तकीभूत्वा नृत्यज्ञत्वान्मयार्पिता ॥ ३६॥
तेनेति प्रेर्यमाण: स वलिना च मनोभुवा |
प्राग्लज्जामथ जग्राह कथंचित्तां सुलोचनाम् ॥ ३७ ॥
कृत्यैरुदात्तैः सापास्ततादृक्कारित्रलाघवा ।
नरेन्द्रमहिषी चक्रे श्रीनरेन्द्रेश्वरं हरम् ॥ ३८ ॥
क्रमेण च प्रजापुण्यैश्चन्द्रापीडाभिधं सुतम् ।
प्रासोष्ट पार्थिववधूर्निधानमिव मेदिनी ॥ ३९ ॥

१ कीर्णकर्ण इत्युचितम् । २ नर्तकीभूता इत्युचितम् ।