सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरपरिभाषाः ।
उदात्तस्य खरितस्य वा स्थाने समादिष्टाद्यणः परस्यानुदात्तस्य
स्वरितः स्यात् । यथा— अभिशब्दोऽन्तोदात्तः । तस्य 'नित्यवीप्सयो -
रिति द्वित्वे 'तस्य परमाम्रेडितं' 'अनुदात्तं च' इति द्वितीयोऽकारोऽनु-
दात्त: । 'अभ्यभि' इति सन्धौ उदात्तस्य इकारस्य स्थानं प्राप्ताद्यकारात्
परस्यानुदात्तस्य अकारस्य स्वरितो भवति । एवं खलव्याशा इति स्वरि-
तस्थानगताद्यणः परस्योदाहरणम् | उदात्तस्य इकः स्थाने आदिष्टो यण्
उदात्तयण् इत्युच्यते । तथा स्वरितयण् इति च । इत्थं च इगादेशा यणः
स्थानिधर्ममुदात्तत्वादिकं न जहतीति सिद्धम् । स्त्रीपुरुषविभागे यथा षण्ड-
स्तथा खरव्यञ्जनविभागे आन्तरालिका यवरलाः । अत एव तेषां 'मध्यमा'
इति 'अन्तस्था' इति च व्यपदेशः । स्वराणां विवृतः प्रयत्नः, अन्तस्था-
नामीषद्विवृत इत्येव भेदः । व्यञ्जनेष्वदृष्टोऽनुनासिकाननुनासिकधर्मश्च
स्वरवदेतेषु दृश्ते । ह्रस्वो दीर्घः प्लत इति मात्राप्रयुक्तो भेदः परमे-
तेषां नास्ति । सन्धिकार्यसंप्रसारणाभ्यां परस्परविनिमयक्षमा इको यणश्चा-
नुत्कटजातिभेदा इति स्थितिः । अत 'उदात्तादनुदात्तस्य स्वरित' इति
पूर्वोक्तेन विधिनैवोदात्तयणः परस्यानुदात्तत्वं सिध्यति, स्वरितयणः परस्य
तु नवो विधिरारभ्य एव । किञ्च प्रकृतं सूत्रमसिद्धकाण्डस्यादौ वर्तते ।
'उदात्ता दनुदात्तस्य स्वरित'स्तु तदन्ते इति चास्ति स्थानकृतो भेदः ।
(१८९७) एकादेश उदात्तेनोदात्तः । ८ । २ । ५ ।
अनुदात्तस्येति वर्तते । उदात्तानुदात्तयोरेकादेश उदात्तः स्यात् ।
आन्तरतम्यात् स्वरितो मा भूदित्यपूर्वो विधिः । अन्यत्र तु भिन्नस्वरयो-
रचोरेकादेश आन्तरतम्यपर्यालोचनयैव । यथा - अग्नि+औ= अभी ।
४४
..
-
(१८९८) स्वरितो वानुदात्ते पदादौ । ८ । २ । ६ ।
अनुदात्तः पदादिस्थश्चेत् उदात्तानुदात्तयोरेकादेशः स्वरितो वा
स्यात्, पक्षे उदात्तश्च । यथा-
=
सु+उत्थितः=सू॑त्थितः । वि + ई॒क्षते = बक्षिते SGDF
व्यवस्थितविभाषेयम् । व्यवस्था च प्रातिशाख्येषु कृता--- Fundamen
365

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/५९&oldid=347298" इत्यस्माद् प्रतिप्राप्तम्