पृष्ठम्:Laghu paniniyam vol2.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरविधिः ।
'इकारयोश्च प्रश्लेषे क्षैप्रामिनिहितेषु च' (स्वरितः) इति । सवर्णदीर्घः
प्रश्लेषः । उदात्तस्वरितयोः स्थाने यो यण् स क्षैत्रः । 'एङः पदा-

न्तादति' इति पूर्वरूपमभिनिहितः ।
STR.
। ६
(१८९९) अनुदात्तस्य च यत्रोदात्तलोपः (आदिरुदात्तः)
। १ । १६१।
"यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्यादिरुदात्तः स्यात् । आदि-
ग्रहणमनेकाक्षरेषु स्थाननियमार्थम् । उदात्तलोपनिमित्तभूतोऽनुदात्त उदात्तः
स्यादित्यर्थः । उदात्तत्वाख्यो धर्मः स्वाश्रयनाशेऽपि पार्श्वगताक्षरेषु संक्र-
म्यानष्ट एव तिष्ठेदित्येभिर्विधिभिरवगम्यते । यथा,
कुमार + ई (ङीप् )=कुमारी ।
छ स्वरविधिः ।
'प्रत्ययः' 'परश्च' इत्यधिकारस्थल एव खरोऽप्यधिक्रियते ।
(१९००) आयुदात्त । ३ । १ । ३ ।
प्रत्ययः सर्वोऽप्युदात्त इत्युत्सर्गः । अनेकाक्षरेषु प्रत्ययेषु स्थाननि-
यमार्थमादिपदग्रहणम् । 'यासुट् परस्मैपदेषूदात्तो ङिच्च' 'लुङ्लङ्लुङ्ङ्क्ष्व.
डुदात्तः' 'चतुरनडुहोरामुदात्तः' इतिवद्विशेषविधानाभावे अनुदात्ता एवा-
गमाः । अतः प्रत्ययानामाद्यन्तव्यवहार आगमनिरपेक्ष इति ज्ञेयम् ।

  • (१९०१) अनुदात्तौ सुप्पितौ । ३ । १ । ४ ।

'स्वौजसमौट्.......' इति बिभक्तयः पितः प्रत्ययाश्च अनुदात्ता
इत्यपवादः । सुप एकाच एव । पित्सु तरप्तमबादयोऽनेकाचोऽपि सन्ति ।
तेषु देशविशेषनिर्देशाभावात् सर्वोऽप्यजनुदात्तः ।
(१) प्रथममनुबन्धनिबन्धनाः प्रत्ययस्वराः
(१९०२) चितः (अन्त उदात्तः) । ६ । १ । १६३
7

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६०&oldid=347299" इत्यस्माद् प्रतिप्राप्तम्