दक रद्रुवने भूरि कल्याणं वह सुन्दर ।
रणरोगादिनिर्मुक्त द्रव गङ्गाम्बुनिर्मल ॥ १० ॥
दन्तावलग सद्वंशेश्वर भट्टमरं किल ।
रयान्मम प्रदेहि त्वं शमवान्वारिजक्रम ॥ ११ ॥
दर्भाग्रप्रतिभं देवं मनसा ततसानम ।
महप्रदगुणागारं वरदासं सदारवम् ॥ १२ ॥
दम्भोलिर्गदशैलेऽकं छिन्धि रध्य घनारव ।
वर्यश्रीवन्तसंजात तमोद मम सन्नत ॥ १३ ॥
त्तित्थानं तत्संबुद्धिः ॥९॥ सुसलम् ॥६॥ हे दक, कस्मिन् । रद्रुवने रं ध्यानमर्थाच्छुभध्यानं तदेव द्रुर्द्रुनस्तस्य वनं तस्मिन् । 'रं क्लीबे रुधिरे मूर्ध्नि ध्याने(व्यो)योमाण्डकुक्षिषु' इत्येकाक्षरा- नेकार्थनामकोशे । हे सुन्दर सुन्दराकृते, हे रणरोगविनिर्मुक्त रणाश्च रोगाश्च तैर्विनिर्मुक्त, हे द्रव द्रः स्वर्णं तस्येव उपमा यस्य । 'द्रः कामरूपिणि स्वर्णे' 'वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम्' इति द्वैमानेकार्थकोशे । हे गङ्गाम्बुनिर्मल गङ्गाम्बुवन्निर्मल निरतिचारचारित्राचरणात् । त्वं भूरि कल्याणं वह प्रापय ॥१०॥ अर्धभ्रमः ॥७॥ किलेति सत्ये । हे दन्तावलग हे गजगतं, दन्तावल इव गच्छतीति तत्संबुद्धिः । 'दन्तावलः करटिकुञ्जरकुम्भिपीलवः' इति हैमः । हे सवंश सञ्छोभनो वंशोऽन्वयो यस्य तत्संबुद्धिः, हे ईश्वर हे ऐश्वर्यवन् ज्ञानाद्यर्धि-समृद्धत्वात्, यद्वा सञ्छोभनश्वासौ वंशः प्राच्यवंशश्च तस्येश्वरस्तत्संबुद्धिः, हे वारिजक्रम चारिजे कमले इव क्रमौ यस्य, यद्वा वारिजं क्रमयोर्यस्य तत्संबोधनं, त्वं शीघ्रं मम भद्रभरं कल्याणसमूहं प्रदेहि । कीदृशस्त्वम् । शमवान् शमगुणयुक्तः ॥ ११ ॥ शरः ॥ ८ ॥ दर्भाग्रेति । हे ततस तता विस्तीर्णा सा लक्ष्मीर्यस्य । 'ता सा श्रीः कमलेन्दिरा' इति हैमः । तत्संवृद्धिः ईदृग् हे जन, त्वं देवं दीव्यति ज्ञानश्रिया दीप्यत इति देवः, यद्वा दीव्यते विश्वमनेनेति देवस्तं अर्थात् गणनाथं मनसा कृत्वा आनमेति संबन्धः कीदृशं देवम् । कुशाग्रीयमतिम् । पुनः कीदृशम् । महानुत्सवान्प्रददति ते महप्रदाः एवंविधाश्च ते गुणाच तेषामगारं गृहम् । पुनः कीदृशम् । वरः प्रधानो दासः प्रभावो यस्य, यद्वा वराः प्रधाना दासाः सेवका यस्य तम् । 'नवनीते प्रभावेऽग्नौ दासो धीवरमृत्ययोः' इति हैमानेका थंकोशः । पुनः कीदृशम् । सञ्छोभन आरवो ध्वनिर्यस्य तम् ॥ १२ ॥ रथपदम् ॥ ९ ॥ हे वर्यश्रीवन्तसंजात वर्यवासौ श्रीवन्तश्च तस्मात्संजातस्तत्संवोधनं, त्वं मम