पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
काव्यमाला ।

 दनुजार्यर्च्य मा देयाः प्राणिनाममलासम ।
 मतिप्रष्ठ गतायास त्वया धीररतिप्रद ॥ ६ ॥

वज्रम् ॥ ४ ॥
 

 दन्ततर्जितसत्सूनचक्रवाल स्य तत्त्वद ।
 दक्षमुख्य दरं कामं घनं मम प्रियंवद ॥ ७ ॥
 दयोदयदयोन्माददवदाहनवाम्बुद ।
 दम्भदस्यो सदाशर्मकण्टकस्वाङ्ग शंकर ॥ ८ ॥ (युग्मम् )

द्वाभ्यां खङ्गम् ॥ ५ ॥
 

 दत्स्व वितरणं शंसूर्वतीश स्मरशंकर ।
 रसास्पृशां गुरो तीव्र सूरे सिद्धेर्निरन्तरम् ॥ ९ ॥

मुसलम् ॥ ६ ॥
 

इदं संबोधनं सहेतुकम् । 'स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः' इत्युक्तत्वात् । हे निः-कपट । मायारहित इत्यर्थः । कलया सह वर्तत इति सकलः तत्संबुद्धिः, हे मदरहित, हे दवसदृश, दाहकत्वात् । कस्मिन् रोगवने ॥ ५ ॥ शक्तिः ॥ ३ ॥ दैत्यानामरयो देवास्तैरर्च्यस्तत्संबुद्धिः, हे अमल कर्ममलरहित, मल्या प्रष्ठः प्रधानस्तत्संबुद्धिः, हे गत-प्रयास, हे धीररतिप्रद वीर्बुद्धिस्तया राजन्त इति धीरा मेधाविनस्तेषां रतिः सुखं प्रकर्षेण ददातीति तत्संबुद्धिः; यद्वा हे धीर बुद्धया विराजमान, हे रतिप्रद हे सुखप्रद, त्वया प्राणिनां मा लक्ष्मीर्दैया । हे असम न समस्तुल्यो जगति कोऽपि यस्य, यद्वा मया लक्ष्म्या सहवर्तमानः समः न समोऽसमः । निःपरिग्रह इत्यर्थः । तत्संबुद्धिः ॥ ६ ॥ वज्रम्॥ ४ ॥ दन्तैस्तर्जितं सत् शोभनं सूनानां प्रसूनानां चक्रवालं समूहो येन तत्संबुद्धिः, हेतत्त्वदायक, दक्षेषु मुख्यो दक्षमुख्यः तत्संबुद्धि:, हे मधुरभाषक, त्वं काममत्यर्थ मम भयं स्य । 'षोऽन्तकर्मणि' इति धातोः स्फोटय ॥ ७ ॥ दयाया उदयो दयोदयः तं दयते ददातीति दयोदयदयस्तत्संबुद्धिः । उन्मादो मोहोदयाच्चित्तविप्लवः स एव दवदाहो वनवह्निस्तत्र नवाम्बुदो यः स तत्संबुद्धिः, दम्भः कपटं तस्य दस्युर्देष्टा तत्संबुद्धिः । 'दस्युः सपत्नो सहनो विपक्षः' इति हैमः । सदा निरन्तरं शर्मणः कण्टको रोमाञ्चः स्वस्याङ्गे यस्य तत्संबुद्धिः । शं सुखं करोतीति शंकरस्तत्संबुद्धिः ॥ ८॥ द्वाभ्यां खड्गम् ॥५॥ हे व्रतिनामीश, हे स्मरशंकर स्मरे शंकर ईश इव, हे तीव्र तीव्रतपःकरणात्, यद्वा तपस्युत्कट । 'तीव्रं कटूष्णात्यर्थेषु' इति हैमानेकार्थकोशः । हे सूरे सूरिपदधारक, हे गुरो गृणाति हिताहितमुपदिशतीति गुरुस्तत्संबोधनं, त्वं नित्यं सिद्धेर्वितरणं दानं दत्व । केषाम् । रसां पृथ्वीं स्पृशन्ति ते रसास्पृशस्तेषां पुंसां शं सुखं तस्य सूरुत्प-