अथ वृषभान्योक्तयः ।
नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ ।
देवागारबलीवर्दस्तथाप्यश्नाति भोजनम् ॥ ४५ ॥
गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते ।
असंजातकिणस्कन्धः सुखं स्वपिति गौर्गली ॥ ४६ ॥
गुरुशकटधुरंधरस्तृणाशी समविषमेषु चला गलापकर्षी ।
जगदुपकरणं पवित्रयोनिर्नरपशुना कथमुपनीयते गवेन्द्रः ॥ ४७ ॥
अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके ।'
गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरद्य धुरंधरम् ॥ ४८ ॥
मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले
खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि ।
शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-
मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ४९ ॥
दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्वुरः
कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् ।
अस्मिन्दुष्टवृषे वृषामितगुणग्रामानभिज्ञात्मनो
ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ ५० ॥
गुरुर्नायं भारः क्वचिदपि न पन्थाः स्थपुटितो
न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम् ।
इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ५१ ॥
न ध्वानं कुरुषे न यासि विकटं नोचैर्वहस्याननं
दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे ।
किं तु त्वं वसुधातलैकधवल स्कन्धाधिरूढे भरे
ती[१]राण्यद्य तटीविटङ्कविषमाण्युल्लङ्घयन्वीक्ष्यसे ॥ ५२ ॥
- ↑ 'तीराण्युचतटी' इति वा पाठः