अथेश्वरान्योक्तयः ।
तावत्सप्तसमुद्रमुद्रितमहीभूभृद्भिर भ्रंकषै-
स्तावद्भिः परिवारिता पृथुतरैर्द्वीपैः समन्तादियम् ।
यस्य स्फारफणामणौ निलयिनी तिर्यक्कलङ्काकृतिः
शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ १०२ ॥
त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणभूषणानि तनुषे हानिर्न हेम्नामपि ।
मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयी-
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ १०३ ॥
बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने
कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।
धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं
स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोऽस्ति तद्ग्राहकः ॥१०४॥
छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।
सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
कं सेवे करवाणि किंतु जगती शून्या त्वमेवेश्वरः ॥ १०५ ॥
अथ लक्ष्म्यन्योक्तयः ।
तापापहे सहृदये रुचिरे प्रबुद्धे
मित्रानुरागनिरते धृतसद्गुणौघे ।
स्वाङ्गप्रदानपरिपूरितषट्पदौघे
युक्तं तवेह कमले कमले स्थितिर्यत् ॥ १०६ ॥
रत्नाकरस्तव पिता स्थितिरम्बुजेषु
भ्राता सुधामयतनुः पतिरादिदेवः ।
केनापरेण कमले बत शिक्षितानि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ १०७ ॥