सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ शिवार्चनाचन्द्रिकायाभूमिका -DDDDEEEE- भोभोः पण्डितमणयश्शिवभक्तिपराश्रीमन्तोमहान्तः विदित- मेवेदं भवतां, यत्किलास्मिन्जगतीतले माकिं चतुश्शतमितवर्षेभ्यः प्राक् प्रचरत्सुविशृङ्खलंकुम तनन्थाभासेषु विलुप्तप्रायेषुचशैवग्रन्थरत्न- जातेषु भगवान् श्रीकण्ठपरजेशः करुणानिधिः साधुजनानुजिघृक्षया निखिलभुवनंतलललामायमान तुण्डीरमण्डलभूषणायमान काञ्ची- पुरपरिसरवर्तिन्यटयप्पलनामन्यग्रहारे अष्टमहाऋतुयाजिनां स्व- चर्यासार्थी कृतनिगमागमानां आचार्यदीक्षिताना मात्मजानां श्रीर- इराजाच्चरिणां पुत्रोऽप्पयोक्षितइति सुगृहीतनामधेयोऽवातर दिति । तेषामवतारप्रभृति विचित्रं घृत्तं यद्यपि पतञ्जलिप्रभृतिरपिनवर्ण- यितुं शक्यं । तथापि पण्डितप्रकाण्डैः कैश्चित्तत्र तत्र किञ्चित्किञ्चि- प्रदर्शितमिति मयाविरम्यते । एतेचाप्पयदीक्षिताः स्वानुग्रहभाजन- स्य श्रीचिनबोम्मभूपालस्य प्रार्थनां स्वावतारञ्च सार्थयन्तस्तदा तदा स्वप्ने परमेश्वरेणाज्ञताः लीलचैव चतुःशास्त्रराद्धान्तप्रकाशकान् नै कान्ग्रन्थान् शैवानिसद्योमुक्तिप्रदानि विमलानिग्रन्थरत्नानिच प्रा. जैषुः । तेषुत्वैकतम मिदमात्माजाप्रतिपादक सिद्धान्तागमानु- सारि शिवाचनकायं ग्रन्थ अस्य च श्रीमदपयदीक्षित- प्रणीतत्वमेतद्वत्थावसानगतेन 'बेलूरधीशचिनवोम्मविभोरुदारे वितेचधामनि बिरादभिवर्धमानाम् । अर्थाविध पशुपतेरमराभि- नन्द्यामित्थं समाचकलमीश्वरशासनेने'तिपद्येनैवस्पष्टीकृतं । अन्यत्रा- पि तव दीक्षितः स्वकृतीः परिगणयन्तः चतुःशास्त्रविषयिणीः स्वकृतीः काश्विदुक्या ' श्रीकण्ठमाध्यव्याख्याच शिवार्कमणि- दीपिका | श्रीशिवानन्दलहरी शिवाद्वैत विनिर्णयः ॥ रत्नत्रयपरी-